________________
अध्य०१८ ॥५१॥
भद्रायुः, प्रपूर्य प्रच्युतोऽच्युतात् ॥ जीवोऽपराजितस्याथ, तस्याः कुक्षाववातरत् ।। ३१८ ॥ तदा च सुखसुप्ता सा, महास्वप्नांश्चतुर्दश ॥ उचराध्य
- वज्रं पञ्चदशं प्रेक्ष्य, प्रबुद्धा भूभुजेऽभ्यधात् ॥ ३१६ ।। सोऽपि स्माह सुतो भावी, चक्रवर्ती तब प्रिये ! तन्निशम्य दधौ गर्भ, राज्ञी मुदित- यनसूत्रम्
मानसा ॥ ३२० ।। क्रमाच्च सुषुवे पुत्रं, जगत्त्रयमनोहरम् ॥ स्वप्नानुसारात्तं भूपो, व्यधाद्वज्रायुधाऽभिधम् ।। ३२१ ॥ स क्रमाद्यौवनं प्राप्तः, प्रियमित्रं मनोभुवः' । लक्ष्मीवती नृपसुता-मुदुवाह महामहैः ॥ ३२२ ॥ जीवोऽथानन्तवीर्यस्या-ऽच्युतस्वर्गात्परिच्युतः ।। कुक्षौ लक्ष्मीवतीदेव्याः, समवातरदन्यदा ।।३२३।। समयेऽजीजनत्पुत्रं, साऽपि लक्षणलक्षितम् ॥ सहस्रायुध इत्याख्या, चक्रे तस्योत्सवैः पिता ॥ ३२४ ॥ सोऽपि कुमावर्द्धमानः, स्वीकृत्य सकलाः कलाः ॥ प्रपेदे यौवनं लीला-वनं मदनभूभृतः॥ ३२५ ॥ सुतयुक्तेऽन्यदा क्षेम-करराजे सभां श्रिते ।। वज्रायुधस्य सम्यक्त्व-मीशानेन्द्रोऽत्यवर्णयत् ॥३२६।। अश्रद्दधानस्तच्चित्र-चूलो मिथ्यामतिः सुरः।। विवादं कत्तु मागात्तां, सभां नास्तिकतां श्रितः ।। ३२७ ॥ पुण्यपापप्रेत्यभावा-स्मादि नास्तीति वादिनम् ॥ वज्रायुधोऽवधिज्ञानी, निजगादेति तं मुदा ॥ ३२८ ।। देव ! त्वमेवावधिना, पश्य प्राग्भवमात्मनः ।। धर्मकर्म च तत्रत्यं, सम्पदोऽस्या निबन्धनम् ॥ ३२६ ॥ पुण्ये प्राच्यभवे चैवं, सिद्धे जीवोऽपि विद्यते ॥ अभावः पुण्यपापादे-स्तत्कथं कथ्यते त्वया ? ॥ ३३० ।। उक्तो वज्रायुधेनेति, चित्रचूलसुरोऽब्रवीत ॥ दुर्बोधोऽपि त्वया साधु, सुबुद्धे बोधितोऽस्म्यहम् ॥ ३३१ ॥ प्रसीद बोधिरत्नं द्राग, देहि मिथ्यामतेमम ॥न हीय॑याऽपि विहितं, दर्शनं विफलं सताम् ॥ ३३२ ॥ वज्रायुधस्ततस्तस्मै, सम्यक् सम्यक्त्वमादिशत् ॥ निःस्पृहाय ददौ दिव्या, भूषास्तस्मै सुरोऽपि सः ॥ ३३३ ।। सभामीशाननाथस्य, गत्वा चैवमुवाच सः॥ वज्रायुधस्य सम्यक्त्वं, स्थानेश्लाघि त्वया प्रभो!
१ कामदेवस्य।
GVEGVES VEGVEGVE