________________
अध्य०१८
उत्तराध्यपनसूत्रम् ॥५०॥
Eeeeeeeeeeeeeeeeeeeeex
तत्र पूर्व प्रतिहरि-प्रहितैः खेचरेश्वरैः । भ्रातुष्पुत्रं युद्धथमानं, वीक्ष्याऽधावद बलो बली | २६8 सीरं भ्रमयतस्तस्मा-भीताः सद्यो दिशोदिशम् । दमितारिभटा नेशु-रुडादिव भोगिनः ।३००। गहं गतो चक्रित्वे-ऽथाऽभ्यषिश्चि हरिनु पैः । स्वयम्प्रभप्रभुस्तत्रा-ऽन्यदा च | समवासरत् । ३०१ । तं च श्रुत्वाऽऽगतं गत्वा, दमितारिसुतायुतः । साग्रजः प्राणमद्विष्णु-स्ततोऽश्रौषीच देशनाम् ।३०२ । ततो हरिमनुज्ञाप्य, कनकश्रीमहोत्सवैः । जिनान्तिके प्रवघ्राज, क्रमान्मुक्तिमवाप च । ३०३ । सीरिशाङ्ग धरौ तौ च, पुष्पदन्ताविवापरौ । चिरं |
राज्यमभुजाता, सम्यक्त्वोद्योतशालिनौ ।३०४। पूर्वलक्षाणि चतुर-शीतिमायुरथो हरिः। प्रपूर्य कर्मविवशः, प्रथमां पृथिवीं ययौ ॥३०॥ | द्विचत्वारिंशत्सहस्र-वर्षायुष्कस्य तस्य च । दुस्सहा जज्ञिरे तत्र, वेदनाश्छेदनादिभिः ।३०६। स्वकर्मणां फलमिति, क्षममाणस्य तस्य ताः। तत्रत्य प्रागभवपिता-ऽशमयञ्चमराधिपः ।३०७ । राज्ये निवेश्य तनयं, बलोऽपि भ्रातृशोकतः। भूमीभुजां षोडशभिः, सहस्रः परिवारितः । ३०८ । परिव्रज्यां जयघर-गणाधीशान्तिकेऽश्रयत् । तपश्च तीव्र तप्त्वाऽऽयुः-प्रान्तेऽभूद्वासवोऽच्युते ।३०६। [युग्मम् ] जीवोऽथानन्तवीर्यस्य निरयानिर्गतस्ततः । वैताढ्य भरतस्यास्य, पुरे गगनवल्लभे ।३१० खेचराधिपतेर्मेघ-वाहनस्याङ्गजोऽभवत् । मेघनादाभिधः प्राप्त यौवनो राज्यमाप्य च । ३११ । साधयामास वैताब्य-श्रेण्यौ द्वे अपि स क्रमात् । विभज्य च ददौ देशा-नशेषानङ्गजन्मनाम् । ३१२ । नन्तु शाश्वतचैत्यानि, गतं तं नन्दनेऽन्यदा । तत्रायातोऽच्युताधीशः, प्रेक्ष्य प्राबुबुधन्मुदा । ३१३ । नाम्ना मरगुरुस्तत्र, चारणपिस्तदाऽऽययौ । प्राबाजीत् खेचराधीश-स्ततोऽसौ तस्य सन्निधौ । ३१४ । स व्रतं पालयस्तीव्र, सहमानः परिषहान् । विपद्यानशनेनान्ते-ऽच्युतसामानिकोऽभवत् । ३१५ । इतश्च जम्बुद्वीपेऽस्ति, प्रागविदेहविभूषणे । बिजये मङ्गलावत्यां नगरी रत्नसश्वया ॥ ३१६ ॥ तत्र क्षेमङ्कराहो-ऽभूद्विश्वक्षेमकरो नृपः ॥ रत्नमालेति तस्यासी-महिषी गुणमालिनी ।। ३१७ ॥ द्वाविंसतिसमु
BIGIONALARIAGNEeeeveAAAAAAAA