SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥ ४६ ॥ तो विष्णुः सहाग्रजः । गच्छन् स्वपूयां कनक- गिरिं पर्वतमैचत । २८३ । इहाद्रौ सन्ति चैत्यानि तानि नत्वा व्रज प्रभो ! । त देति खेचरैरुक्त-स्वच्चैत्यानि ननाम सः । २८४ । तत्र कीर्तिधरं साधुः, तदैवोत्पन्नकेवलम् । वीक्ष्य नत्वा च सोऽश्रौषी-देशनां सपरि छदः । २८५ । बन्धूनां विरहस्तात - पातश्चाभूत्कुतो मम ? । अथेति पृष्टः कनक- श्रिया मुनिरदोऽवदत् । २८६ । धातकीखण्डभरते, शङ्खप्रामेऽभवद्वशा । श्रीवत्ताह्नाऽतीव दुःस्था, परौकः कृत्यजीत्रिका । २८७ । श्रीपर्वते गता सत्य- यशसं मुनिमन्यदा । वीक्ष्यावन्दत सा दत्ता - शिषं तं चैनमब्रवीत् । २८८ । श्रहमत्यन्तदुःस्थास्मि, तत्किञ्चित्तादृशं वद । अत्रामुत्र च येनाहं भवामि सुखिनी • विभो ! । २८६ | साधुस्तस्यै ततो धर्म' - चक्रवालं तपोऽवदत् । प्रारेमे तत्तपः सापि तं प्रणम्य गृहं गता । २६० । तन्महिम्ना शुभं भोज्यं प्राप पारणकेषु सा । स्वगेहभित्तिदेशाच्च, पतितात्काञ्चनादिकम् । २६१ । उद्यापनं तपःप्रान्ते, सा विधायोत्तमं ततः । मासोपवासिनेऽनादि, ददौ सुव्रतसाधवे । २६२ । कृताहारात्ततः साधोः, श्राद्धधर्मं च साददे । दध्यौ चान्येद्य रित्यस्माद्धर्माद्भावि फलं न वा. १ । २६३ । विचिकीत्सामनालोच्य, विपन्ना साऽन्यदा ततः । दमितारिमत्सुतस्य तनया त्वमभूः शुभे ।। २६४ । तस्यास्ते विचिकीत्सायाः फलमेतदुपस्थितम् । स्वल्पोऽपि खलु धर्मस्य, कलङ्को भूरिदुःखदः । २६५ । श्रुत्वेति जातवैराग्या, कनकश्रीजंगी हरिम् । महाभागानुजानीहि भवाद्भीतां व्रताय माम् । २६६ । ततः स विस्मितः स्माह, शुभामेहि शुभाशये । स्वयम्प्रभजिनोयान्ते प्रत्रजेस्तत्र चोत्सवैः । २६७ इत्युक्त्वा तां सहादाय, सबलः सबलानुजः । मुनिं प्रणम्य तं भक्त्या, जगाम नगरी निजाम् । ६८ प्रथमं पदं १ तत एकान्तरोपवासाः ६० इति । प्रकारद्वयेन १] अहम र एकान्तरं चतुर्थ ३७ प्रान्ते म १ इवि धर्म चक्रवालं तपः। धर्मवातंत्र प्रथमप्रकारें दिन ८२ । द्वितीय प्रकारे १२३ ॥ शुभ नगरीम अध्य०१८ 11 82 11
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy