________________
(DE
अध्य०१८ ॥४६॥
उत्तराध्य-अभ्युत्थाय तं सिंह--विष्टरेण न्यमन्त्रयत् ।। २२६ ॥ दत्ताशिषं निविष्टं च, दमितारिस्तमित्यवक ॥ त्वया हि भ्रमता स्वैर, ब्रहि दृष्टं कि-2 यनसूत्रम् मद्भुतम् ॥ २३० ॥ ततः प्रमुदितोऽवादी-नारदोऽद्य व भूपते ! ।। शुभापुर्यां गतोऽनन्त-वीर्यस्योर्वीपतेः पुरः ॥ २३ ॥ किरा
तीवर्बरीसझ-चेटिकारब्धनाटकम् ॥ अहमद्भुतमद्राक्षं, दुरापं युसदामपि ! ॥२३२॥ [युग्मम् ] तद्विना राज्यमप्येतत् , फल्गु भोज्यमिवाघृतम् ॥ उक्त्वेति गगनेनागा-नारदर्षिः कलिप्रियः ॥ २३३ ॥ दूतोऽथानन्तवीर्याय, प्रहितो दमितारिणा ॥ गत्वा शुभापुरी नत्वा, साग्रज तमदोऽवदत् ॥२३४॥ विजयाद्धेत्र यत्सारं, दमितारेस्तदर्हति ॥ चेत्यौ नत्याविमे राज्य-सारे तस्मै प्रदेहि तत् ! ॥२३॥ उवाचानन्तवीर्योऽथ, यातु दूताऽधुना भवान् ।। त्वरितं प्रेषयिष्यामि, किश्चिदालोच्य चेटिके ॥२३६ ॥ ततः प्रयाते दते तो, भ्रातराविति दध्यतुः । अयं हि विद्याशक्त्यैव, भूपोऽस्मासु प्रभूयते ॥ २३७ ॥ तत्साधयामो विद्यास्ता, यास्तेन सुहृदार्पिताः॥ अविहस्तौ रहस्तो द्वौ, यावद्व्यमशतामिति ।।२३८॥ प्रज्ञप्त्याद्यास्तावदेत्य, विद्यादेव्योऽवदन्नदः ॥ याः साधयितुमिष्टा वा--मायातास्ताः स्वयं वयम् ॥२३॥ प्रागभवे साधितत्वाद्धि, नाऽधुना साधनेष्यते ॥ युवां तदनुजानीत-मस्मान् संक्रमितु तनौ ॥२४०॥ ताभ्यां चानुमताः सर्वा, विविशुस्तास्तदङ्गयोः ॥ तासां वयाँ सपयां च, मुदितौ तौ वितेनतुः ॥ २४ ॥ इतश्च प्रहितो दुतो, भूयोऽपि दमितारिणा ॥ क्षिप्रमागत्य तावेव| मवदद्वदतां वरः ।। २४२ ॥ दास्यौ दास्याव इत्युक्त्वा, युवाभ्यां प्रहिते न यत् ।। युवयोस्तदसुभ्योऽपि, ते प्रिये इति दृश्यते ! ॥२४३॥
अथ चेद्वां प्रियाः प्राणाः, तत्ते प्रेषयतं द्रुतम् ॥ अमर्षणः स हि प्राणा-नन्यथा वां हरिष्यति ! ॥ २४४ ॥ ततस्तावृचतुः स्वामी, स हि तोष्यो धनैर्धनैः ॥ आभ्यां चेत् प्रियते तर्हि, ते लात्वा त्वं प्रगे ब्रजेः॥ ४५ ॥ ताभ्यामित्युदितो दूत-स्तद्दत्ते न्यवसद्गृहे ॥ न्ययुञ्जातां राज्यभारं, सुधियौ धीसखेषु तौ ॥४६॥ प्रातश्च विद्या चेटी-भूतौ दतमुपेयतुः । साग्रजोऽनन्तवीर्यो नौ, प्रैषीदित्यूचतुश्च तम्
सरासरासर
EVEGEVGGGGGLEEVE