SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य पनसूत्रम् 1180 11 ॥ २४७ ॥ तत आदाय ते दूतो, वैताढ्य मुदितो ययौ ॥ दमितारेश्वोपनीय, प्रोवाचेति कृताञ्जलिः ॥ २४८ ॥ प्रभो ! ऽपराजितानन्तवीर्यो त्वद्वशवत्तिनौ । इमे ते चेटिके मझ-मदत्तां प्राभृताय ते ॥ २४६ ॥ ते नटयौ नाटकं कतु, दमितारिरथादिशत् ॥ अपूर्व - दर्शनोत्को हि, विलम्बं नावलम्बते || २५० ।। ततस्ते चक्रतुर्नाट्यं, पूर्वरङ्गादिपूर्वकम् ।। रसाशेषविशेषाढ्यौं, विश्वविश्वैककार्मणम् ।। २५१ ।। प्रेक्षणीयं' प्रेक्षणीयं', प्रेक्ष्य तत् क्ष्माधवः सुधीः ॥ भूर्भुवःस्वत्रयीसारं, मेने तच्चेटिकाद्वयम् ॥ २५२ ॥ अथ नाट्यं शिक्षतु, स्वपुत्र कनकश्रियम् ॥ दमितारिस्तयोर्विश्व-जैत्ररूपश्रियं ददौ ॥ २५३ ॥ अनन्तवीर्यं गायन्त्यौ, रूपाद्ये रद्भुतं गुणैः ॥ तामशिक्षयतां नाट्यं, ते मायाचेटिके ततः ॥ २५४ ॥ युवाभ्यां गीयते भूयः, कोयमित्यथ कन्यया । पृष्टे तयात्रत्रीदेवं, मायाचेटयपराजितः ॥ २५५॥ शुभापुरीप्रभू रूप-हृतदर्पकदर्पकः ।। परापराजितो भ्राता - ऽपराजितविभोर्लघुः || २५६ ॥ गीयते जगतीगेयो ऽनन्त वीर्यायो ह्ययम् ॥ युवा युवत्या स यया, न दृष्टः तज्जनिर्मुधा ! || २५७ ॥ [ युग्मम् ] तन्निशम्योल्लसद्रोम - हर्षा 'हल्लेखमाश्रिता ॥ कथं द्रक्ष्यामि तं कान्त-मिति साऽचिन्तयच्चिरम् ।। २५८ ।। इङ्गितज्ञस्ततोऽवादी - तामेवमपराजितः । तं विश्वसुभगोत्तंसं किं मृगाचि ! दिदृक्षसे १ ।। २५६ ।। कनक श्रीरथाचख्यौ क्व नु मे तस्य दर्शनम् ॥ प्राणिनां मन्दभाग्यानां दुरापो हि दूयुसन्मणीः ॥ २६० ॥ ऊचेऽपराजितो मुश्च, शुचं नलिनलोचने ! ॥ विद्यया भ्रातृयुक्तं तं त्वत्कृतेऽहमिहानये ।। २६१ ।। हर्षगद्गदगीरेवं, कनकश्रीरथावदत् । कलावति ! कुरुष्वाशु, वचः सफलमात्मनः ॥ २६२ ॥ स्वं स्वं रूपं ततः प्रादु- वक्रतुस्तौ जितामरम् । ऊचेऽपराजितस्तां चा-नन्तवीर्यो ह्यसौ शुभे ! ॥ २६३ ॥ मदुक्तमस्य रूपादि, दृशा संवादय स्वयम् ॥ सापि प्रेक्षावती प्रेक्षा - मास तं निर्निमेषदृक् १ दृष्टु ं योग्यम् । २ नाटकम् | ३ उत्साहम् तर्क वा ।। अध्य०१८ ॥ ४७ ॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy