________________
उत्तराध्ययनसूत्रम् ॥४१॥
अध्य०१८ ॥४१॥
EeeeeeeeeeeeeeeeeeeeeeeeeeY
घनैरिख । पुर्या चमरचञ्चायां, क्षिप्रं श्रीविजयो ययौ । १४१ । स्वयं त्वशनिघोषं तं, भूरिविद्याविदं विदन् । सहस्ररश्मिना
साकं, स्वपुत्रेणार्ककीर्तिसूः। १४२ । महाज्वाला महाविद्या, परविद्याबलापहाम् । महासचः साधयितु, जगाम हिमवदगिरिम ।। १४३ । [ युग्मम् ] सहस्ररश्मिना रक्ष्य-माणो मासोपवासकृत् । विद्यां साधयितुं, तत्रा-ऽमिततेजाः प्रचक्रमे । १४४ । इतश्चा
शनिघोषाय, दूतं श्रीविजयो नृपः । प्राहिणोत्सोऽपि गत्वा तं, प्रोवाचेति प्रगल्भवाक् । १४५ । प्रतारण्या विप्रतार्य, श्रीश्रीविजयपार्थिवम् । हरन् सुतारां किं वीरं-मन्यस्त्वं न हि लज्जितः । १४६ । यद्वा पौरुषहीनानां, छलमेव बलं भवेत् ।। किन्तु ध्वान्तमिवार्के
श्री-विजये तत्कथं स्फुरेत् ? । १४७ । सुतारां देहि तत्तस्मै, तूर्ण प्रणतिपूर्वकम् । त्वत्प्राणैः सह तां नेता, नेता' श्रीविजयोऽन्यथा! KK | १४८ । शशंसाशनिघोषोऽथ, साधु धृष्टोऽसि दूत रे ! । यदि श्रीविजयोत्रागा-न्मन्दधीस्तर्हि तेन किम् ? । १४६ । शौर्यांशोKI Sपि न मे तेन, वराकेण सहिष्यते ! । भानुप्रकाशलेशोऽपि, सह्यते कौशिकेन किम् ? । १५० । यथाऽऽयातस्तथा यातु, तदसाविह तु
स्थितः । सुतारां लप्स्यते नैव, लप्स्यते तु विगोपनाम् । १५१ । इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् । सोऽथ क्रुधो भृशं युद्धसज्जः सेनामसज्जयत् । १५२ । विज्ञायाशनिघोषोऽपि, तस्य सैन्यं रणोद्यतम् । 'सानीकानऽश्वघोषादीन, प्रजिघायाऽऽजये ऽङ्गजान् । । १५३ । पूर्णेऽथ रणतुर्याणां, निर्घोषैरभितोऽम्बरे। तयोः प्रवृते घोरं, "महानीकमनीकयोः । १५४ । तदा च समरं द्रष्टुं, देवानां दिवि तस्थुषाम् । वीराः केऽपि व्यधुर्विघ्नं, कुर्वन्तो मण्डपं शरैः । ।१५। कुन्तप्रोतान् रिपून केचिदुइधुवटकानिव । केप्यद्रीणामिवेभानां, दन्तान् दण्डैरखण्ड यत् । १५६। मुद्गरैमृदुः केपि, घटानिव भटा स्थान् । परिषैश्च परान् केचि-च्चुक्षुदुश्चणकानिव । १५७ । कृष्माण्डा
१ स्वामी । २ घूकेन । ३ ससैन्यान् । ४ रणे । ५ युद्धम् । ६ खे।
PRESEARRESSESसस