________________
उत्तराध्य
यनसूत्रम् ॥ ४० ॥
पानीयमन्तरा ? । १२३ । तदुःखं त्वद्वियोगोत्थ- मसास हिरयं जनः । अन्तयत्वनुगम्य त्वां, सत्वरं जीवितेश्वरि । । १२५ । इत्युदीर्य महीनाथः, समं दयितया तया । विमोहमोहितोऽध्यास्त, नियुक्तै रचितां चिताम् ॥ १२५ ॥ वन्हौ ज्वलितुमारब्धे, तत्राग़ातां च खेचरौ । तयोश्चैको मन्त्रितेना-ऽसिञ्चन्नीरेण तां चिताम् । १२६ । ततः प्रतारणी कृत्वा - ट्टहासान् द्राक् पलायत । तद्वीक्ष्य दध्यौ राट् केयं, क्व मे कान्ता क्व चाऽनलः ।१२७| ध्यायन्निति नृपोऽप्राक्षीत्किमेतदिति तौ नरौ । ततौ राजानमानम्य, तावप्येवमवोचताम् । १२८ । आवां हि अमिततेजसो नन्तुमर्हतः । निर्यातौ द्रागिहायातौ, वाणीमशृणुवेदृशीम् । १२६ । हा सोदरामिततेजो !, हा श्रीविजय मत्प्रिय ! । इमां सुतारामेतस्माद्विमोचयत खेचरात् । १३० । गिरं तामनुधावद्द्भ्यां दृष्टावाभ्यां तव प्रिया । उपात्ताशनिघोषेण, सुताराऽस्मत्प्रभोः स्वसा ।१३१। तां विमोचयितु ं दुष्ट !, तिष्ठ तिष्ठेति वादिनौ । योद्धुमुत्कौ समं तेन, सुताराऽऽवामदोऽवदत् । १३२ । युवां ज्योतिर्वनं यातं, तत्र श्रीविजप्रभुम् । प्रतारण्या विप्रतार्य, मार्यमाणं च रक्षतम् । १३३ । ततोऽत्र द्रुतमेताभ्यामावाभ्यां मन्त्रितैर्जलैः । चिताग्निः शमितो दुष्टा, नाशिता च प्रतारणी ।१३४ | हृतां सुतारां ज्ञात्वाऽथ विषण्णं तं नरेश्वरम् । गाढाग्रहेण वैताढ्य, निन्यतुस्तौ नभवरौ । १३५ । तं चाभ्युदस्थात्सहसा -अमिततेजाः ससम्भ्रमः । प्रतिपत्तिं च कृत्वोच्चैः पप्रच्छागमकारणम् । १३६ । ततः श्रीविजयेनोक्तौ तौ विद्याधरकुञ्जरौ । तस्मै सर्वं सुताराया, हरणोदन्तमूचतुः | १३७। क्रुधोऽथामिततेजास्तं, प्रोचे हृत्वा तव प्रियाम् । मज्जामि च कियन्नामा - ऽशनिघोषः स जीविता ।१३८ । उक्त्वेति शस्त्रावरणीं, बन्धनीं मोचनीं तथा । विद्याममिततेजाः -श्रीविजयाय ददौ मुदा । १३६ । वृतं सैन्यान्वितैः स्वीय-सुतानां पञ्चभिः शतैः । प्रैषीत् श्रीविजयं सद्यः, सुतारानयनाय सः । १४० । ततो विद्याधरानीकै - श्छादयन् 'द्यां
१ आकाशम् ।
अध्य०१८ 118. 11