________________
अध्य०१८ ॥३॥
प्रबजाम्यहम् ॥ ततः कपिलमाहूय, प्रोवाचेति महीपतिः ॥२६ ॥ धर्मकर्मोद्यतां मुञ्च, विरक्तां ब्राह्मणीमिमाम् ॥ किमस्यां हि विरक्तायां, उत्तराध्य
भावि भोगसुखं तब ! ॥३०॥ सोवादीदेव नैवैनां, निजा स्वक्ष्यामि कामिनीम् ॥ न क्षमोऽस्मि क्षणमपि, विनामुष्या हि जीवितुम् ॥३१॥ यनसूत्रम् |
भामा प्रोचे यद्यसौ मां, न जहाति तदा प्रिये ॥ व्याजहार ततो राजा, मुधा मा म्रियतामियम् ॥ ३२ ॥ किन्तु तिष्ठत्वसौ कञ्चि, कालं ॥३५॥ कपिल ! मद्गृहे ॥ एवमस्त्विति सोप्यूये, तो बलान्नेतुमक्षमः ॥३३॥ सत्या सत्वाशया राज्ञा, पट्टराज्योस्ततोऽपिता ॥ तस्थौ स्वच्छम
नास्तत्रा-चरन्ती दुश्वरं तपः ॥३४॥ अन्यदाऽनन्तमतिका, वीक्ष्य वेश्यां मनोहराम् ॥ इन्दुषेण-बिन्दुषेणा-वभूतामनुरागीणौ ॥३५॥ तां च कामयमानौ तौ, सुरमिं वृषभाविव ॥ सोदरावपि सामर्षों, युध्येते स्म परस्परम् ! ॥३६॥ तद्वीक्षितु निरोद्धचा-प्रभूः श्रीषेणभूविभुः ॥ विपेदे पबमाघाय, विषमिश्रं त्रपातुरः ॥३७॥ व्यपद्य ती तथैवाभिनन्दिताशिखिनन्दिते । शिश्राय कपिलाड़ीता, सत्यभामाऽपि तत्पथम् ! ॥३८॥ चत्वारोऽपि विपद्यव-मतीवसरलाशयाः ॥ युग्मिनो जज्ञिरे जम्बूद्वीपोत्तरकुरुष्वमी ॥ ३९ ॥ पुंस्त्रीरूपं
युग्ममेकं, तत्र भूपाभिनन्दिते ॥ अभूत्तदन्यत्तु शिखि-नन्दिताकपिलप्रिये ॥४०॥ कोशत्रयोच्छ्यास्त च, पल्यत्रितयजीविताः तुर्येनाऽहनि कृताहारा, व्यतीयुः समयं सुखम् ॥ ४१ ॥ इतश्च युध्यमानौ तौं, श्रीषणनृपनन्दनौ । कोऽपि विद्याधरोम्येत्य, विमानस्थोऽब्रवी
दिति ॥४२॥ अज्ञानाज्जामिमप्येना, भो ! युवा भोक्तुमुद्यतौ ॥ मा युध्येथां मुधा वाक्यं, हितेच्छोः श्रूयतां मम ॥ ४३ ॥ द्वीपेत्रवास्ति Pा विजयो, विदेहे पुष्कलावती ॥ तद्वैताढ्योत्तर श्रेण्या-मादित्याभपुरं वरम् ॥४४॥ नृपः सुकुण्डली तत्रा-जितसेना च तत्प्रिया ।
अहमस्मि तयोः सूनु मतो मणिकुण्डली ॥ ४५ ॥ अन्यदाहं गतो व्योम्ना, नगरी पुण्डरीकिणीम् ॥ भूरिभक्त्याऽमितयशोPA नामानमनमं जिनम् ॥४६॥ खेचरोऽहं कुतोऽभूव-मित्यपृच्छं च तं प्रभुन् ।। सर्वोऽपि ततः प्रोचे सुधामधुरया गिरी ॥४७॥ पुष्कर