________________
उत्तराध्ययनसूत्रम् ॥३३॥
अध्य०१८ ॥३३॥
I मधुनापि समागतौ ।२५१। दृष्टं च तदपि स्पष्टं, सुराचल इवाचलम् । इत्युक्त्वा तं च नत्वा तौ, तिरोधत्तां सुधाशनौ । २५२। कौमारे
मण्डलीत्वे च, लक्षाद्धं शरदामभूत् । लवं च तस्य चक्रित्ये, श्रामण्येऽपि तदेव हि ।२५३। वर्षलबत्रयीमान-मविवायाधुरित्ययम् । चकारानश प्रान्ते, सम्मेताचल मूर्द्धनि । २५४ । आयुःक्षयेणाऽथ सनत्कुमारः, सनत्कुमारविदिचे सुरोऽभूत् । ततश्च्युतवावमवाप्य देह-मन्त्यं विदेहे शिवगेहमेता २५५ इति सनत्कुनारचक्रिकथा ।३७।। मूलम् चइत्ता मारहं वासं, चक्कवटी महिड्डीओ । संती संतीकरो लोए, पत्ते गइमणुसरं ॥३८॥
व्याख्या व्यक्तं, कथासम्प्रदायस्त्विहायम् , तथाहिअत्रैव भरतक्षेत्रे, पुरे रत्नपुराभिधे । भूपःश्रीषेण नामाभू-समग्रगुणसेवधिः।१। प्रिये अभूतां तस्याभि-नन्दिताशिखिनन्दित । स्मरस्येव रतिप्रीती, परमप्रीतिभाजनम् ।। तत्राभिनन्दिताकुक्षि-प्रभवौ तस्य भूप्रमोः । इन्दुषेणविन्दुषेणाभूतां सनयावुभौ ॥३॥ सूरैविमलपोघाह्वात् , श्राद्धधर्मस पार्थिवः । प्राप लोक इवालोकं, 'कोकबन्धोस्तमोपहात् ।४। तत्र चाभूदुपाध्यायः,सत्यकिर्नाम सत्यधीः । जम्बूकाहा प्रिया तस्य, सत्यभामा च नन्दना ।। [इतश्च मगधेष्वचलग्रामे, वेदवेदाङ्गपारगः । नाम्ना धरणिजटोऽभू-द्विषो 'धरणिविश्रतः |१६॥ तस्याभूतां यशोभद्रा-मिवभार्यासमुद्भवौ । कुलीनौ द्वौ सुतौ नन्दि-भूतिश्रीभृतिसञ्ज्ञको । स च विप्रश्चिरं रेमे, दास्या कपिलया समं । तत्कुक्षिजः ततस्तस्य, सुतोऽभूत्कफ्लिाभिधः ।। स दासेरः सुतौ कुल्यौ, पितुः पाठयतोऽन्तिकात् । कर्णश्रुत्वा श्रुतीः सर्वा-स्तूष्णीकोप्यग्रहीत्सुधीः ।। ग्रामासतोऽथ निर्गत्यो-पवीतयमुद्वहन् । द्विजोत्तमोऽस्मीति वदन, पर्यटन पृथिवीतले १० पुरै रत्नपुरे सोऽगात,
१ सूर्यात् । २ पृथिवीख्यातः ।