________________
उत्तराध्य
अध्य०३६ ॥१३॥
यनसूत्रम्
॥१३॥
शतत्रयरूपे सिद्धानामवगाहना भवेत् ॥६२॥ अवगाहना च चलनसम्भवेऽपि स्यादित्याह-तत्र योजनषड्भागे सिद्धा 'महाभागा' अतिशयाचिन्त्यशक्तयो लोकाग्रे प्रतिष्ठिताः, एतच्च कुतः ? इत्याह--भवा-नारकादिभवास्तेषां प्रपञ्चो-विस्तारस्तेनोन्मुक्ताः सिद्धिं वरगतिं गताः । अयं भावो भवप्रपञ्च एव चलने हेतुः स च सिद्धानां नास्तीति कुतः तेषां चलनमिति ॥६३॥ सिद्धानामवगाहनामाह-'उत्सेध' उच्छयः प्रक्रमा
देहस्य "जस्सचि" येषां सिद्धानां य इति यत्परिमाणो भवति भवे चरमे पर्यन्तवर्तिनि 'तुः' पूत्तौं ततश्चरमभवोत्सेधात्रिभागहीना सिद्धानां H यत्तदोर्नित्याभिसम्बन्धात् तेषामवगाहना भवेत् त्रिभागस्य शरीरान्तर्विवरपूरणेन कृतार्थत्वात् ॥ ६४॥ एतानेव कालतो निरूपयितुमाह
एकत्वेन सादिकाः अपर्यवसिता अपि च, यत्र काले ते सिध्यन्ति तत्र तेषामादिः न च कदाचिन्मुक्तेभ्रश्यन्तीति न पर्यवसानं । पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेत्यर्थः अनादिका अपर्यवसिता अपि च, न हि ते कदाचिन्नाभूवन्न भवन्ति न भविष्यन्ति चेति भावः ॥६५॥ एपामेव स्वरूपमाह-'अरूपिणो' रूपरसादिरहिताः, जीवाश्च ते सततोपयुक्ततया घनाश्च शुपिरपूरणनिचितप्रदेशतया जीवघनाः, ज्ञानदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगानन्यस्वरूपा इत्यर्थः । 'अतुलं' असमं सुखं संप्राप्ताः, उपमा यस्य सुखस्य नास्ति तुः पूतौ ॥६६॥ उक्तग्रन्थे ज्ञातमपि विप्रतिपत्तिनिरासाय क्षेत्रं स्वरूपं च तेषामाह-लोकैकदेशे ते सर्वे इत्येनन सर्वत्र मुक्तास्तिष्ठन्तीति मतमपास्तं, ज्ञानदर्शन संज्ञिता इत्यनेन ज्ञानोच्छेदे मुक्तिरितिमतं निरस्तं, संसारपारं निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येन अतिक्रान्ताः, अनेन तु "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥" इति मतमपाकृतं, सिद्धिं वरगतिं गता अनेन क्षीणकर्मणोऽपि स्वभावेनैवोत्पत्तिसमये लोकाग्रगमनं यावत्सक्रियत्वमप्यस्तीति ख्याप्यते, इत्येकादशस्त्रार्थः ॥ ६७ ॥ इत्थं सिद्धानुक्त्वा संसारस्थानाह
REVIEVIETATETEVEVEEVEEVE
/b