________________
उत्तराध्ययनसूत्रम् ॥१२६॥
अध्य०३६ ॥१२६॥
इत्तो कालविभागं तु, तेसिं वोच्छं चउल्विहं ॥ ११॥ व्याख्या—'एकत्वेन' पृथग्भूतद्वयादिपरमाणुसंघाततो द्विप्रदेशिकाविलक्षणसमानपरिणतिस्वरूपेण, 'पृथक्त्वेन' परमाण्वन्तरैः सहा- 1 संघातरूपेण बृहत्स्कन्धेभ्यो विचटनात्मकेन वा स्कन्धाश्च लक्ष्यन्त इति शेषः। एतानेव क्षेत्रत आह-'लोएगदेसे' इत्यादि-लोकस्यैकदेशे लोके च 'भक्तव्या' भजनया विज्ञेयाः ते इति स्कन्धाः परमासनश्च, 'तु:' पूरणे, क्षेत्रतः । अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात् स्कन्धविषयैव भजना द्रष्टव्या । ते हि विचित्रपरिणामत्वेन बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे अवतिष्ठन्ते, अन्ये तु संख्येयेष्वेव प्रदेशेषु यावत्कोऽपि सकललोकेपि तथाविधाचित्तमहास्कन्धवत्ततो भजनीया इत्युच्यन्ते । 'इत्तोत्ति' इत इति क्षेत्रप्ररूपणातोऽनन्तरं | 'कालविभागं तु' कालभेदं पुनस्तेषां स्कन्धादीनां वक्ष्ये चतुर्विधं साधनादिसपर्यवसितापर्यवसितमेदेनेति सूत्रार्थः । इदं च सूत्रं षट्पादं, प्रत्यन्तरेषु चान्त्यपादद्वयं न दृश्यतेऽपि ॥ ११ ॥ प्रतिज्ञातमाह| मूलम्-संतई पप्प तेऽणाई, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपज्जवसिावि अ । १२
असंखकालमुक्कोस, एगं समयं जहन्नयं । अजीवाण य रूविणं, ठिई एसा विाहिमा ॥१३
अणंतकालमुक्कोस, एगं समयं जहन्नयं । अजीवाण य रूवीणं, अंतरेअं विआहि ॥ १४ व्याख्या-'सन्ततिम्'अपरापरोत्पत्तिरूपां 'प्राप्य' आश्रित्य ते इति स्कन्धाः परमाणवश्च अनादयः अपर्यवसिता अपि च, न हि प्रवाहतस्तद्वियुक्तं जगत् कदाप्यासीत् अस्ति भविष्यति मा । 'स्थिति' प्रतिनियतक्षेत्रावस्थानरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च,