________________
तराध्य
नसूत्रम्
१२१॥
पयेत् यथासूत्रं आगमार्थानतिक्रमेण उद्गमोत्पादनैषणाद्यबाधात् इति भावस्तत एवानिन्दितं जात्यादिजुगुप्सितजनसम्बन्धि यन्न भवति, तथा लाभालाभे सन्तुष्टः पिण्डस्य पातः पतनं प्रक्रमात् पात्रेऽस्मिन्निति पिण्डपातं चरेदासेवेत मुनिर्वाक्यान्तरविषयत्वाच्च नं पौनरुक्त्यम् १६ इत्थं पिण्डमवाप्य यथा भुञ्जीत तथाह - 'अलोलो' न सरसान्ने प्राप्ते लाम्पत्यवान्, न रसे मधुरादौ गृद्धोऽप्राप्तेऽभिकांक्षावान्, "कुतश्चैवंविधः ? यतः “जिन्भादत्ति" दान्तजिह्वोऽत एवामूर्च्छितः सन्निधेरकरणेन भोजनकाले ऽभिष्वङ्गाभावेन वा । एवंविधश्व 'न' नैव 'रसहात्ति' रसो धातुविशेषः स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति रसार्थं धातूपचयार्थमित्यर्थः न भुञ्जीत, किमर्थ तत्याह-यापनानिर्वाहः स चार्थात् संयमस्य तदर्थं महामुनि जीतेतियोगः ।। १७ ।। तथा
मूलम् अच्चां रयणं चेव, वंदणं पूर्ण तहा । इड्डीसक्कारसम्माणं, मणसावि न पत्थर ॥ १८ ॥
व्याख्या – 'अर्चना' पुष्पादिभिः पूजां, 'रचना' निषेद्यादिविषयां स्वस्तिकादिरूपां वा, 'चः' समुच्चये एवोऽवधारणे नेत्यनेन योज्यः, वन्दनं प्रतीतं, 'पूजन' वस्त्रादिभिः प्रतिलाभनं तथेति समुच्चये, ऋद्धिश्व श्रावकोपकरणादिसम्पत्सत्कारश्चार्घदानादिः, सम्मानं चाभ्युत्थानादि ऋद्धिसत्कारसम्मामं मनसाप्यास्तां वाचा नैव प्रार्थयेत् ॥ १८ ॥ किं पुनः कुर्यादित्याहमूलम् - सुक्कं झाणं भित्राएजा, अनि
अकिंचणे । वोसट्टकाए विहरेज्जा, जाव कालस्स पजओ १६
व्याख्या – “सुक्कं झाणंति” सोपस्कारत्वात् सूत्रस्य शुक्लं ध्यानं यथा भवति तथा ध्यायेत् अनिदानोऽकिञ्चनः व्युत्सृष्टकायों निप्रतिकर्मशरीरो विहरेदप्रतिबद्धविहारितयेति भावः । कियन्तं कालमित्याह - यावत् 'कालस्य' मृत्योः ' पर्यायः - प्रस्तावो यावज्जीवमित्यर्थः ॥ १६ ॥ प्रान्तकाले चायं यत्कृत्वा यत्फलं प्राप्नोति तदाह
EXEEEEEEENG
अध्य० ३५ ॥१२१॥