________________
उत्तराध्य यनसूत्रम् ॥११॥
NEEAVers
ܕܦܕܕܦܝܕܦܝܕܦܦܟܦܦܫܬܟܕܩ
सङ्कल्पयेद्वासमित्युक्तम् ॥ ७ ॥ ननु ? किमिह परकृत इति विशेषणमुक्तमित्याशंक्याह--न स्वयं गहाणि कुर्वीत नैवान्यैः कारयेदुपलक्षण- अध्य०३५ त्वान्नापि कुर्वन्तमन्यमनुमन्येत, किमिति यतो गृहकर्म इष्टकामृदानयनादि तस्य समारम्भः-प्रवर्त्तनं गृहकर्मसमारम्भः तस्मिन् 'भूतानां' ॥११॥ प्राणिनां दृश्यते वधः ॥ ८॥ कतरेषामित्याह-त्रसाणां स्थावराणां सूक्ष्माणां शरीरापेक्षया बादराणां च तथैव तस्माद्गृहकर्मसमारम्भं । संयतः परिवर्जयेत् ॥ ६ ॥ अन्यच्चमूलम्-तहेव भत्तपाणेसु, पयणपयावणेसु अ। पाणभूयदयट्ठाए, न पए न पयायए ॥१०॥ जलधन्ननिस्सिा पाणा, पुढविकट्ठनिस्सिा । हम्मति भत्तपाणेसु, तम्हा भिक्खू न पयावए ॥ ११॥ विसप्पे | सव्वओ धारे, बहुपाणिविणासणे । नस्थि जोइसमे सत्थे, तम्हा जोइं न दीवए ॥ १२॥
व्याख्या-तथैवेति प्राग्वदेव भक्तपानेषु पचनपाचनेषु च वधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किमित्याह-प्राणास्त्रसा भूतानि पृथिव्यादीनि तद्दयार्थ न पचेत् न पाचयेत् ॥ १०॥ अमुमेवार्थ स्पष्टतरमाह-जले धान्ये च निश्रिता ये तत्रान्यत्र वा उत्पद्य तन्निश्रया स्थितास्ते जलधान्यनिश्रिताः पूतरकेलिकापिपीलिकादयो जीवा एवं पृथ्वीकाष्ठनिश्रिताः, हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानेषु, यत एवं तस्मात् भितर्न पाचयेत् , अपेर्गम्यत्वान्न पाचयेदपि कथं पुनः स्वयं पचेत् ? अनुमतिनिषेधोपलवणं चैतत् ॥ ११ ॥ तथा–विसति स्वल्पमपि बहु व्याप्नोतीति विसर्प, सर्वतो धारं सर्वदिकस्थितजीवोपघातकत्वात , अत एव बहुप्राणिविनाशनं नास्ति 'ज्योतिःसम' वन्हितुल्यं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ॥ १२ ॥ ननु ? पचनादौ जीववधः स्यान तु क्रयविक्रययोस्ततो युक्त एवाभ्यां निर्वाह
JEETBEGELE ZAVEZAVE