________________
उत्तराध्ययनसूत्रम् ॥११७॥
अध्य०३५ ११७॥
॥ अथ पञ्चत्रिंशमध्ययनम् ॥ अहम् ।। उक्तं चतुस्त्रिंशमध्ययनमथानगारमार्गगत्याख्यं पञ्चत्रिंशमारभ्यते, अस्य चार्य सम्बन्धः-दहानन्तराध्ययनेऽप्रशस्ता लेश्या- स्त्यक्त्वा प्रशस्ता एवाश्रयणीया इत्युक्त, तच्च गुणवता भिक्षुणा सम्यकत्तुं शक्यमिति इह तद् णा उच्यन्त इति सम्बन्धस्यास्येदमादिसूत्रम्| मूलम्-सुणेह मेगग्गमणा, मग्गं बुद्ध हिं देसि । जमायरतो भिक्खू , दुक्खाणंतकरो भवे ॥१॥ ___व्याख्या-शृणुत मे वदत इति शेषः, हे शिष्याः ! यूयं 'एकाग्रमनसो'अनन्यचित्ताः, किं तदित्याह-मार्ग मुक्तेरिति प्रक्रमः, 'बु-|
द्वैः'अहंदाद्यैर्देशितं, याचरन्'आसेवमानो भिक्षुः दुःखानामन्तकरो भवेत्सकलकर्मनिर्मूलनादिति भावः ॥१॥ प्रतिज्ञातमेवाह| मूलम्-गिहवासं परिच्चज्ज, पव्वज्ज अस्सिए मुणी । इमे संगे विआणेज्जा, जेहिं सज्जंति माणवा ॥२
___व्याख्या-गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः इमान् प्रतिप्राणिप्रतीतत्वेन प्रत्यक्षान् सङ्गान् पुत्रकलत्रादीन् विजानीयात् , भवहे| तवोऽमी इति विशेषेणावबुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेति भावः । सङ्गशब्दव्युत्पत्तिमाह-यैः 'सज्यन्ते' प्रतिबन्धं भजन्ति मानवा उपलक्षणत्वादन्येऽपि जन्तवः ॥ २ ॥ मलम-तहेव हिंसं अलि, चोज्ज अब्बभसेवणं । इच्छाकामं च लोभं च, संजओ परिवज्जए ॥३॥
व्याख्या-तथेति समुच्चये, एवेति पूरणे, हिंसामलीकं चौर्यमब्रह्मसेवनं इच्छारूपः काम इच्छाकामस्तं च अप्राप्तवस्तुवान्छारूपं 'लोभं | च' लब्धवस्तुविषयगृद्धिरूपं अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयतः परिवर्जयेत् ॥ ३ ॥ तथा
ST