SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसत्रम् ॥११३॥ PRESESVEEVEEVESES RECECECECSET संख्येयभागरूपा 'सा उत्ति' सैष समयाम्यधिका जघन्येन नीलायाः 'पलिश्रमसंखेज्जत्ति' पम्योपमासंख्येयभाग उत्कृष्टा बृहत्तरश्चार्य भागःअध्य०३४ पूर्वस्मादवसेयः ॥ ४६॥ इहापि पूर्वस्मात्पल्योपमासंख्यभागाद् बृहत्तमो भागो ज्ञेयः, शेषं प्राग्वत् ॥ ५० ॥ एवं निकायद्वयभाविनीमाद्य ॥११३॥ लेश्यात्रयस्थिति दर्शयित्वा समस्तनिकायभाविनी तेजोलेश्यास्थितिमभिधानुमाहमुलम्-तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवइवाणमंतर-जोइसवेमाणिमायां च ॥५१॥ पलिओवमं जहन्ना, उक्कोसा सागरा उ दुण्णहिआ। पलिअमसंखिज्जेणं, होइ तिभागेण तेऊए ॥५२॥ दसवाससहस्साई, तेऊइ ठिई जहन्निा होइ । दुण्णुदही पलिओवम-असंखभागं च उक्कोसा ॥५३॥ व्याख्या-"तेणत्ति" ततः परं प्रवक्ष्यामि तेजोलेश्यां 'यथेति' येन प्रकारेण सुरगणानां स्यात्तथेति शेषः, केषामित्याह-भवनपतिवानमन्तरज्योतिप्कवैमानिकानां, चः पूत्तौं ॥५१॥ प्रतिज्ञातमाह-पल्योपमं जघन्या, उत्कृष्टा द्वे सागरोपमे अधिके, केनेत्याह-पल्योपमासंख्येयेन भागेन भवति तैजस्याः स्थितिः, इयं चास्याः स्थितिवैमानिकानेवाश्रित्यावसेया, तत्र जघन्या सौधर्मे उत्कृष्टा वेशाने । उपलक्षणं चैतत् शेषनिकायतेजोलेश्यास्थितेः, तत्र भवनपतिव्यन्तराणां दशवर्षसहस्राणि जघन्या, उत्कृष्टा तु व्यन्तराणां पल्यं, भवनपतीनां साधिकं सागरं, ज्योतिषां जघन्या पन्याष्टभागः, उत्कृष्टा वर्षलक्षाधिकं पल्यमिति ॥ ५२ ।। अत्र सूत्रे देवसम्बन्धितैजस्याः स्थितिः सामान्येनोक्ता, इह च दशवर्षसहस्राणि जघन्याऽस्याः स्थितिरुच्यते, प्रक्रमानुरूप्येण तु योत्कृष्टा कापोतायाः स्थितिः सैपास्याः समयाधिका जघन्या प्राप्नोति, तदत्र तत्त्वं तद्विदो बदन्तीति ।। ५३ ॥ पनायाः स्थितिमाह GNENetra
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy