SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ उत्तराध्यपनसूत्रम् ॥२६॥ अध्य०१८ ॥२६॥ GELEVER EVE EVEeveeee ॥१७८॥ [ त्रिभिर्विशेषकम् ] तत्र स्वदर्शनेनाशु, पितरौ नागरांश्च सः ॥ प्राममुदश्चक्रवाकी, पनानि च यथार्यमा' ॥१७९ ॥ पश्यन्पुत्रस्य तां लक्ष्मी-मश्वसेननरेश्वरः ॥ विस्मयं च प्रमोदं च, पाप वाचामगोचरम् ॥ १८०॥ तुष्टेन राज्ञा पृष्टोऽथ, कुमारस्यात्मनश्च तम् ॥ वृत्तान्तमखिलं प्रोचे, महेन्द्रो विस्मयावहम् ॥१८१॥ ततोऽश्वसेनभूपालः, पुत्र राज्ये न्यवीविशत् । सुधीर्महेन्द्रसिंहं च, तत्सेनाधिपतिं व्यधात् ॥१८२॥ स्वयं तु श्रीधर्मनाथ-तीर्थे स्थविरसन्निधौ ।। विरक्तो व्रतमादाय, निजं जन्माकृतार्थयत् ॥ १८३ ॥ अथो सन कुमारस्य, राज्यं पालयतोऽन्यदा ॥ चक्रादीनि महारत्ना-न्यजायन्त चतुर्दश ॥१८४ ॥ ततो वर्षसहस्रण, साधयित्वा स भारतम् ।। निधानानि नवासाद्य, पुनरागानिजं पुरम् ॥ १८५ ॥ प्रविशन्तं पुरे तं चा-वधिना वीक्ष्य वासवः ।। मत्तुल्योऽसौ प्राग्भवेऽभू-दिति स्नेह ददौ भृशम् ॥१८६॥ श्रीदं चेत्यादिशच्चक्री, तुर्योऽसावस्ति मे सुहृत् ॥ राज्याभिषेकं तद्गत्वा, कुरुष्वाऽमुष्य धीनिधे ! ॥१८७ ॥ इत्युक्त्वा चामरे च्छत्रं, हारं मौलिं च कुण्डले ॥ सिंहासनं पादपीठं, देवदृष्ये च पादुके ॥ १८८ ॥ दातु सनत्कुमाराय, धनदस्य हरिददौ ॥ | रम्भातिलोत्तमादींश्च गन्तुं तेन सहादिशत् ।।१८६॥ [ युग्मम् ] ततस्तदन्वितो गत्वा, 'कुबेरो हस्तिनापुरे ॥ सौधर्माधिपतेराज्ञां, चक्रिणे तां न्यवेदयत् ॥१६०॥ तेन चानुमतः 'श्रीदो, विचक्रे योजनायतम् ॥ माणिक्यपीठं तस्योद्ध, मण्डपं च मणीमयम् ॥ ११॥ मणिपीठं च तन्मध्ये, कृत्वा सिंहासनाञ्चितम् ॥ आनाययद्वैश्रवणः , क्षीरोदादुदकं सुरैः॥१२॥ ततः सगौरवं श्रीद-श्चक्रिणं तत्र मण्डपे॥ सिंहासने निवेश्येन्द्र-अहितं प्राभूतं ददौ ॥१६३॥ चक्रे चक्रित्वाभिषेकं, तैर्जलैः सोऽथ चक्रिणः ॥ मङ्गलातोद्यनिर्घोष, तदोच्चैश्चक्रिरे सुराः ॥१६४॥ तदा मङ्गलगीतानि, जगुनि रंगायनाः॥रम्भातिलोत्तमाद्याश्च, नाटकं व्यधुरुत्तमम् ॥१६॥ पूजयित्वाथ तं वस्त्र-भूषामाल्य १ रविः। २-३-४ धनदः । EVEVEREVEEVELEVE EVEVEVEY
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy