SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥ २८ ॥ कामुकमादाय, 'नाराचं मुञ्चतो द्विषः || श्रद्धेन्दुनाऽसौ चिच्छेद, मौर्वी सह जयाशया ॥ १६० ॥ अथ कृपारामाकृष्य, धावतस्तस्य ते सखा ।। बाहोरर्द्धं महाबाहु-मृणालच्छेदमच्छिनत् ॥ १६१ ॥ तथापि धावतो हन्तु ं तस्य प्रज्वलतः क्रुधा || विद्यादत्तेन चक्रेण, चक्रेऽसौ मस्तकं पृथक् ! ॥१६३॥ सन्ध्यावली सुनन्दाभ्यां, सानन्दाभ्यां युतस्ततः ॥ बैताढ्याद्रौ जगामासौ, चन्द्रवेगादिभिः समम् ॥१६४॥ तत्र चामुष्य सम्भूय, सकलैः खेचरैश्वरैः ॥ विद्याधरमहाराज्याभिषेको निर्ममे मुदा ॥ १६५॥ अथैनं शाश्वते चैत्ये, विहिताष्टाहिकोत्सवम् ।। खेचरेन्द्रश्चन्द्रवेग, इत्यूचे मत्पिताऽन्यदा ।। १६६ ॥ ममार्चिर्मालिमुनिना, प्रोक्तं यत्तुर्यचक्रभृत् । भावी सनत्कुमाराख्यः पतिः पुत्रीशतस्य ते ।। १६७ ।। स चायास्यति मासेन, मानसेऽत्र सरोवरे ॥ तत्रासिताक्षयक्षं च पराजेता महाभुजः ॥ १६८ ॥ ततो बकुलम - त्यादि - सुताशतमिदं मम ।। परिणीय प्रभो ! क्षिप्रं प्रार्थनां मे कृतार्थय ॥ १६६ ॥ विज्ञप्त इति मत्पित्रा, वयस्यस्ते महाशयः || मदादिकाः शतं कन्याः, परिणिन्ये महामहैः ॥ १७० ॥ ततो विविधलीलाभिः क्रीडन् विद्याधरीवृतः ॥ निनायासौ सुखं कालं, खेचरेन्द्रनिषेवितः ॥ १७१ ॥ अद्य तु क्रीडयात्रागा - देवाच्च मिलितो भवान् । अनुकूले हि देवे स्था-द्विनोपायमपीहितम् ॥ १७२ ॥ एवं बकुलमत्योक्ते, गृहानिर्गत्य भूपभूः || मित्रेण सह वैताढ्य, जगाम सपरिच्छदः ॥ १७३ ॥ प्राप्यावसरमन्येद्य - महेन्द्रस्तं व्यजिज्ञपत् । पितरौ त्वद्वियोगात, प्रभो ! भूरि विषीदतः ॥ १७४॥ कदा कुमारं द्रक्ष्यामो ध्यायन्तावित्यहर्निशम् ॥ स्वदर्शनेन पितरौ, प्रमोदयितुमर्हसि ॥ १७५ ॥ श्रुत्वेति सोऽपि सोत्कण्ठः, सकलत्रस्वमित्रयुक् । विमानैर्विविधैव्यग्नि, दर्शयन् शतशो रवीन् ॥ १७६ ॥ दिव्यवेषैव्यमयायि - द्विपवाहादिवाहनैः ॥ ससैन्यैः खेचराधी - वृतः शक्र इवामरैः ।। १७७ ।। वर्यत्यघनिर्घोष, रोदसी परीपूरयन् । जगाम सम्पदां धाम, पुरं श्रीहस्तिनापुरम् १ शरम् । २ जयाम् । ३ रविः । अध्य०१८ ॥२८॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy