SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१४॥ अध्य०३३ ॥४॥ eeeeeeeeeeeeeeeeeeeeY ॥अथ त्रयस्त्रिंशमध्ययनम् ॥ ॥ॐ॥ उक्तं द्वात्रिंशमध्ययन, अथ कर्मप्रकृतिसंशं त्रयस्त्रिंशमारभ्यते । अस्य चायमभिसम्बन्धोऽनन्तराध्ययने प्रमादस्थानान्युतानि, तैश्च कर्म बध्यते इति सम्बन्धस्यास्येदमादिसूत्रम्मुलम्-अट्ठ कम्माई वोच्छामि, आणुपुवि जहक्कम । जेहिं बद्धो अयं जीवो संसारे परिअत्तइ ॥१॥ व्याख्या-अष्ट क्रियन्ते मिथ्यात्वाविरत्यादिहेतुभिर्जीवेनेति कर्माणि वक्ष्यामि, 'आनुपूर्व्या' परिपाटथा । इयं च पश्चानुपादिरपि | स्यादित्याह-यथाक्रम क्रमानतिक्रमेण । यैः 'बद्धः श्लिष्टोऽयं प्रतिप्राणिस्वसंवेदनप्रत्यक्षो जीवः संसारे 'परिवर्तते' अपरापरपर्यायाननुभवन् भ्राम्यतीति सूत्रार्थः ॥१॥ प्रतिज्ञातमाहमूलम्-नाणस्सावरणिज्जं, दंसणावरणं तहा । वेअणिज्जं तहा मोह, आउकम्म तहेव य ॥२॥ नामकम्म च गोत्तं च, अंतरायं तहेव य । एवमेआई कम्माई, अद्वैव उ समासओ ॥३॥ ____ व्याख्या-ज्ञानस्य विशेषावबोधरूप आवियते सदप्याच्छाद्यतेऽनेन धनेनार्क इवेत्यावरणीयम् । दर्शनं सामान्यावबोधस्तदात्रियतेऽनेन प्रतीहारेण नृपदर्शनमिवेति दर्शनावरणम् । तथा वेद्यते-सुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्तासिधारावदिति वेदनीयम् । तथा मोहयति जानानमपि मद्यवद्विचित्तताजननेनेति मोहस्तम् । आयाति दुगतेनिष्क्रमितुकामस्यापि जन्तोनिंगडवत् प्रतिबन्धकतामित्यायुस्तदेव कर्म आयुष्कर्म तथैव च ॥२॥नमयति गत्यादिविविधभावानुभवं प्रति जीवं प्रवणयति चित्रकर इव गजाश्वादिभावं प्रति रेखाकारमिति नाम
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy