________________
उचराध्य यनसूत्रम् ॥३३॥
अध्य०३२ ॥३३॥
. मूलम-सो तस्स सव्वस्स दुहस्स मुक्को, जं बाहई सययं जंतुमेअं।
दीहामयविप्पमुक्को पसत्थो, तो होइ अच्चंतसुही कयत्थी ॥११०॥ व्याख्या–स मोक्ष प्राप्तः तस्माज्जातिजरामरणादिरूपत्वेन प्रोक्तात् सर्वस्मात् दुःखात्-सर्वत्र सुब्ब्यत्ययेन षष्ठी, 'मुक्तः पृथग्भूतो यत्कीदृशमित्याह-यहःखं बाधते सततं जन्तुमेनं प्रत्यक्षं, दीर्घाणि स्थितितः प्रक्रमात कर्माणि तान्यामया इव विविधवाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः, अत एव 'प्रशस्तः प्रशंसाहः 'तो' इति-ततो दीर्घामयविप्रमोक्षात् भवत्यत्यन्तसुखी तत एव च कृतार्थ इति सूत्रार्थः ॥ ११० ॥ अध्ययनार्थोपसंहारमाह
मूलम्-अण्णाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमोक्खमग्गो।
विहिओ जं समुवेच्च सत्ता, कमेण अच्चंतसुही हवंतित्ति बेमि ॥१११॥ व्याख्या-अनादिकालप्रभवस्य एषोऽनन्तरोक्तः सर्वस्य दुःखस्य 'प्रमोक्षमार्गः' प्रमोक्षोपायो व्याख्यातोयं 'समुपेत्य' सम्यक प्रतिपद्य सत्त्वाः क्रमेणोत्तरोत्तरगुणावाप्तिरूपेण अत्यन्तसुखिनो भवन्तीति सूत्रार्थः ॥११॥ इति ब्रवीमीति प्राग्वत्
FAVEGVEGVEGEVEEVEEVARE AVAY