________________
उत्तराध्य
अध्य०३२ ॥१२॥
पनसूत्रम्
॥३२॥
RBARDA
KI कामगुणेसु तण्हा ॥१०७॥ स वीअरागो कयसव्वकिच्चो, खवेइ नाणावरणं खणे। तहेव जं दसणमावरेइ,
जं चतरायं पकरेइ कम्मं ॥१०८॥ सव्वं तो जाणइ पासई अ, अमोहणे होइ निरंतराए। अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ॥१०६॥ ..
व्याख्या एवमुक्तनीत्या स्वस्थात्मनः सङ्कल्पा--रागद्वेषमोहरूपा अध्यवसायास्तेषां विकल्पनाः सकलदोषमूलत्वादिपरिभावनाः स्वसकल्पविकल्पनास्तासु 'उपस्थितस्य' उद्यतस्य सञ्जायतें 'समता' माध्यस्थ्यमितियोगः। 'अर्थाश्चाइन्द्रियार्थान् रूपादीन संकल्पयतः' चिन्तयतो यथा नैते कर्मबन्धहेतवः किन्तु रागादय एवेति । यद्वा 'अर्थान् जीवादीन् चस्य भिन्नक्रमत्वात् संकल्पयतश्च शुभध्यानविषयतयाध्यवस्यतः, ततः इति समतायाः 'से' तस्य साधोः प्रहीयते कामगुणेषु 'तृष्णा' अभिलापः ॥१०७ ॥ ततः स किं करोतीत्याह–स प्रहीणतृष्णो वीतरागो भवति, सप्णा हि लोभस्तत्क्षये च क्षीणमोहत्वावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति ज्ञानावरणं क्षणेन, तथैव यत् दर्शनमावृणोति तत् दर्शनावरणमित्यर्थः, 'यच्चान्तरायं' दानादिविषयं विघ्नं प्रकरोति कर्मान्तरायाख्यमित्यर्थः यत्क्षयाच कं गुणमवाप्नोतीत्याह-सर्वं ततो ज्ञानावरणीयादिक्षयाद् 'जानाति' विशेषरूपत्वेनावगच्छति, पश्यति च सामान्यरूपतया, तथा 'अमोहनो' मोहरहितो भवति, तथा निरन्तरायः, 'अनाश्रवः' कर्मबन्धहेतुरहितः' ध्यान-शुक्लध्यान-तेन समाधिः-परमस्वास्थ्यं ध्यानसमाधिस्तेन युक्तो ध्यानसमाधियुक्तः, आयुपः उपलक्षणत्वात् नामगोत्रवेद्यानां च क्षयः आयुःक्षयस्तस्मिन् सति मोक्षमुपैति 'शुद्धो' विगतकर्ममल इति सूत्रत्रयार्थः ॥ १०६ ॥ मोक्षगतश्च यादृशः स्यात्तदाह
Seeeeeeeeeeeeeeeeeeeee
AAAAAसर