________________
Sede
उत्तराध्य यनसूत्रम् ॥७३॥
अध्य०३२ ॥७३॥
व्याख्या-एतांश्च स्त्रीविषयान् ‘सङ्गान्' सम्बन्धान समतिक्रम्य सुखोत्तराश्चैव भवन्ति शेषा द्रव्यादिसङ्गाः, सर्वसङ्गानां रागरूपत्वे || तुल्येऽपि स्वीसङ्गानामेवैतेषु प्राधान्यात् दृष्टान्तमाह-यथा 'महासागरं' स्वयम्भूरमणमुत्तीर्य नदी भवेत्सुखोत्तरैव "अवि गंगासमाणत्ति"
गङ्गासमानापि प्रास्तां क्षुद्रनदीत्यपिशब्दार्थः ॥ १८ ॥ किञ्च-कामेषु अनुगद्धिः-सतताभिकांदा कामानुगद्धिस्तत्प्रभवमेव, खुशब्दस्या- | वधारणार्थत्वात् , दुःखं सर्वस्य लोकस्य सदेवकस्य, यत्कायिकं मानसिकं च 'किञ्चद्' अल्पमपि, तस्यान्तमेवान्तकं गच्छति 'वीतरागो' विगतकामानुगद्धिः ॥ १६ ॥ ननु कामाः सुखरूपास्तत्कथं तत्प्रभवमेव दुःखमुच्यते ? उच्यते-'यथा च' यथैव किम्पाकफलानि 'मणोरमत्ति' अपेर्गम्यत्वान्मनोरमाण्यपि रसेन वर्णेन च शब्दाद्गन्धादिना च भुज्यमानानि, तानि लोकप्रतीतानि "खुद्दएत्ति" आपत्वात् 'क्षोदयन्ति' विनाशयन्ति जीवितं 'पच्यमानानि' विपाकावस्थाप्राप्तानि, एतदुपमाः कामगुणा विपाके, विपाकदारुणतासाम्येन तत्तुल्या इति भावः ॥ २० ॥ एवं केवलस्य रागस्योद्धरणोपायमभिधाय तस्यैव द्वेषान्वितस्य तमाह-ये इन्द्रियाणां विषया मनोज्ञाः न तेषु भा'
अभिप्रायं अपेर्गम्यत्वात भावमपि प्रक्रमादिन्द्रियाणि प्रवर्त्तयितुं, किं पुनस्तत्प्रवर्तनमित्यपिशब्दार्थः, 'निसृजेत्'कुर्यात्कदाचित् । 'नच' a नैवामनोज्ञेषु मनोऽपि कृर्यादिन्द्रियाणि प्रवर्तयितुमितीहापि गम्यं, अपेरर्थः प्राग्वत् , समाधिरिह रागद्वेषाभावरूपस्तं कामयते इति समा
धिकामः श्रमणः तपस्वीति सूत्रद्वादशकार्थः ॥ २१ ॥ इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्य इन्द्रियाणां निवर्त्तनमुपदिष्टं, अथ विषयेषु तत्प्रवर्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि मनश्चाश्रित्य दर्शयितुमष्टसप्ततिं सूत्राण्याह । तत्रापि चक्षुराश्रित्य त्रयोदशसूत्राणिमूलम्-चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो उ जो तेसु स वीअरागो ॥२२॥ रूवस्स चक्खु गहणं वयंति, चक्खुस्स रूवं गहणं वयंति । रागस्स हेउं समणु
eeeeeeeeeeeeeeeeee