________________
उत्तराध्ययनसूत्रम् ॥६७॥
रुक्तः । तथा अज्ञानं-मत्यज्ञानादि, मोहो-दर्शनमोहनीयं, अनयोः समाहारस्तस्य विवजना-मिथ्याश्रुतश्रवणकुदृष्टिसङ्गत्यागादिना परिहा- |G
अध्य०३२ णिस्तया, अनेन सम्यग्दर्शनरूपो मोक्षहेतुरेवोक्तः । रागस्य द्वेषस्य च 'संक्षयेण' विनाशेन, अनेन चारित्रात्मकः स एवोक्तः, रागद्वेषयोरेव
| ॥६७॥ तदुपघातकत्वात् । ततश्चायमर्थः-सम्यग्ज्ञानदर्शनचारित्रैरकान्तसौख्यं समुपैति मोक्षम् । अयं च दुःखप्रमोक्षं विना न स्यादित्यनेन स एवोपलक्षित इति सूत्रार्थः ॥२॥ नन्वस्तु ज्ञानादिभ्यो दुःखप्रमोक्षो ज्ञानादीनां तु कः प्राप्तिहेतुरुच्यते ?
मूलम्-तस्सेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा ।
सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणया घिई य ॥३॥ ___ व्याख्या-तस्येत्यनन्तरोक्तस्य ज्ञानादेमोक्षोपायस्य एष 'मार्गः' पन्था उपाय इत्यर्थः, क इत्याह-गुरवो-यथास्थितशास्त्राभिधायकाः, वृद्धाश्च-श्रुतपर्यायादिना स्थविरास्तेषां सेवा गुरुवृद्धसेवा । विवर्जना 'बालजनस्य' पावस्थादेः 'द्रात्' दूरेण, स्वल्पस्यापि तत्सङ्गस्य महादोपत्वात् । स्वाध्यायस्य एकान्तेन-च्यासङ्गत्यागेन निपेवणा-अनुष्ठानं एकान्तनिषेवणा। चः समुच्चये, सत्रार्थसश्चिन्तना, 'धृतिश्च मनःस्वास्थ्यं | न हि धृति विना ज्ञानादिलाभ इति सूत्रार्थः ॥३।। यद्येवंविधो ज्ञानादेरुपायस्तर्हि तानि वाञ्छता प्राक्किं कर्तव्यमित्याह
मूलम्-आहारमिच्छे मिअमेसणिज्जं, सहायमिच्छे निउण?बुद्धिं ।
निकेअमिच्छेज्ज विवेगजोगं, समाहिकामे समणे तवस्सी ॥४॥ व्याख्या-अहारमिछन्मितमेषणीयं, न तु तदन्यं । सहायमिच्छेत निपुणा अर्थेषु-जीवादिषु बुद्धिर्यस्य स तथा तं । 'निकेतम'आ