________________
उत्तराध्य
अध्य० ३२
॥६६॥
पनसूत्रम्
JEEVEGYEEVEGYEE Yeeveere-YEGYEE VE
॥ अथ द्वात्रिंशमध्ययनम् ॥ ॥ॐ॥ उक्तमेकत्रिंशमध्ययनं अथ प्रमादस्थानाख्यं द्वात्रिंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने चरणमुक्त, तच्च प्रमादस्थानत्यागादेवासेव्यते, तत्त्यागश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम् ।
मूलम-अच्चंतकालस्स समूलयस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो।
तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ॥१॥ व्याख्या-अन्तमतिक्रान्तोऽत्यन्तो वस्तुनश्च द्वावन्तौ प्रारम्भक्षणो निष्टाक्षणश्च, तत्रेहारम्भक्षणलक्षणोऽन्तः परिगृह्यते, तथा चात्यन्तोऽनादिः कालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन-कषायाविरतिरूपेण वर्तते इति समूलकस्तस्य, सर्वस्य दुःखयतीति दुःखः-संसारस्तस्य, 'तुः' पूतौं, यः प्रकर्षण मोतः-अपगमः प्रमोक्षः तं भाषमाणस्य मे, प्रतिपूर्ण-प्रस्तुतार्थश्रवणव्यतिरिक्तविषयान्तरागमनेनाखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः सन्तो यूयं शृणुत, एकान्तेन-निश्चयेन हितं एकान्तहितं, हितस्तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः ॥१॥ प्रतिज्ञातमाह
मूलम - नाणस्स सव्वस्स पगासणाए, अण्णाणमोहस्स विवजणाए ।
रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥२॥ व्याख्या-'ज्ञानस्य' मतिज्ञानादेः सर्वस्य पाठान्तरे 'सच्चस्स' सत्यस्य वा 'प्रकाशनया' निर्मलीकरणेन, अनेन ज्ञानात्मको मोक्षहेतु
Veeneeeeeeeeeeeeeeee