________________
उत्तराध्ययनसूत्रम्
॥६४॥
से. वेतव्ये ||५|| निष्प्रतिकर्मशरीरत्वं कार्यम् ॥ ६ ॥ यथा नान्यो वेत्ति तथा तपः कार्यम् ॥ ७॥ प्रलोभता ||८|| परिषहादिजयः ॥ ६ ॥ श्रार्जवम् ॥१०॥ संयमविषये शुचित्वम् ॥११॥ सम्यक्त्वशुद्धिः ॥ १२ ॥ चित्तसमाधिः ॥ १३ ॥ श्राचारपरिपालने मायाया अकरणम् ॥ १४ ॥ विनयोपगत्वेन मानाकरणम् ॥१५॥ धृतिप्रधाना मतिधृ तिमतिर्धार्या ॥ १६ ॥ संवेगपरता ॥ १७ ॥ स्वदोषप्रच्छादनार्थं या माया सा प्रणिधिरुच्यते सा त्याज्या || १८ || सुविधिकारिता ॥ १६ ॥ संवरः ॥ २०॥ आत्मदोषोपसंहारः || २१|| सर्वकामविरक्तत्वभावना ॥ २२ ॥ मूलगुणप्रत्याख्यानम् ||२३|| उत्तरगुणप्रत्याख्यानं ||२४|| द्रव्यभावविषयो व्युत्सर्गः ॥ २५ ॥ श्रप्रमत्तता ||२६|| क्षणे क्षणे सामाचार्यनुष्ठानम् ||२७|| ध्यानसम्भृतता ||२८|| मारणान्तिकवेदनोदयेप्यक्षोभता ||२६|| संगानां प्रत्याख्यानम् ||३०|| प्रायश्चित्तकारिता ||३१|| मरणान्ताराघना ||३२|| ततो द्वन्द्वे सिद्धातिगुणयोगास्तेषु । त्रयस्त्रिंशदाशातनासु च अर्हदादिविषयासु प्रतिक्रमणसूत्रोक्तासु, पुरतः शिष्यगमनादिषु वा समवायाङ्गोक्तासु ताश्चेमाः शिष्यो राजन्यस्याचार्यादेः पुरतः १ पार्श्वतो वा २ पृष्टतो ३ वा अत्यासन्नं गच्छति || ३ || एवं तिष्ठति ।।६।। एवमेव च निषीदति ॥ ६ ॥ बहिभूमौ गतो गुरोः पूर्वमुभयसाधारणाम्भसा शौचं करोति ॥ १० ॥ गुरोः पूर्वं गमनागमनमालोचयति ॥ ११॥ रात्रौ शब्दं कुर्वतो गुरोर्जाग्रदपि प्रतिशब्दं न दत्ते ||१२|| श्रावकादिकमालापनीयं गुरोः पूर्वमालापयति ॥ १३ ॥ अशनाद्यानीय पूर्वमन्येषामालोच्य पश्चाद्गुरोरालोचयति ॥ १४ ॥ एवमन्येषां तत्पूर्वमुपदर्शयति ।। १५ ।। एवं गुरोः प्रागशनादिनाऽपरानिमन्त्रयति ॥ १६।। गुरूननापृच्छय यो यदिच्छति तत्तस्मै प्रचुरं २ दत्ते ॥ १७ ॥ मनोज्ञं मनोज्ञं स्वयं भुङ्क्ते ॥ १८ ॥ दिनेऽपि गुरोः शब्दयतो न प्रतिवचो दत्ते ॥१६॥ गुरुं प्रति निष्ठुरं मुहुर्वक्ति ||२०|| गुरुणा शब्दितो यत्र स्थितो गुरुवचः शृणोति तत्र स्थितः एव प्रतिवचो दत्ते ॥ २१॥ किं भणसीति गुरु वक्ति ||२३|| यादृशं गुरुक्ति तादृशमेव प्रतिवक्ति, यथार्य ! किं ग्लानादेर्वैयावृत्त्यादि न करोषीत्यादि गुरुणोक्त
अध्य० ३१
॥६४॥