________________
उत्तराध्य
यनसूत्रम्
॥५६॥
५ । तुबे ६ अ रोहिणी ७ मल्ली ८, मायंदी ६ चंदिमा १० इ ॥१॥ दावहवे ११ उदगनाए १२, मंडुक्के १३ तेली १४ इय । नंदिफले १५ अवरकंका १६, आइएणे १७ सुसु १८ पुंडरीए १६ ॥ २ ॥ त्ति” तथा 'स्थानेषु' श्राश्रयेषु कारणेष्वित्यर्थः कस्येत्याहसमाधेः । तत्र समाधिर्ज्ञानादिषु चित्तैकाग्र्यं न समाधिरसमाधिस्तस्य तानि च विंशतिस्तथाहि द्रुतद्रुतचारित्वं द्रुतचारित्वे हि पतनादिना आत्मानमसमाधौ योजयेत्, जीववधे सत्यन्यानपि परलोके चात्मनः सत्त्ववधनिर्मितकर्मणा असमाधिः स्यात् । एवमन्येष्वप्यस माधिस्थानत्वं भावनीयम् ॥१॥ प्रमार्जितेऽवस्थानादि ||२|| दुष्प्रमार्जितेऽवस्थानादि, अनयोः सर्पादिनाऽऽत्मनोऽसमाधिः ॥३॥ अतिरिक्तशय्यासनत्वं अतिविस्तीर्णशालादौ अन्यैरधिकरणादिना आत्मपरासमाधिः, एकाधिकपीठाद्यासेवनेऽपि तथैव ॥४ ॥ रत्नाधिकपराभवनम् ||५|| स्थविरपरिभवनम् ॥६॥ भूतोपघातः प्रमादादेकेन्द्रियादिहननम् ||७|| संज्वलनं क्षणे २ रोषः ||८|| क्रोधनं दीर्घकोपकरणम् ॥६॥ पृष्ठमांसिकं परोक्षे परापवादः ॥ १० ॥ अभीक्ष्णं अवधारिणी भाषाया भाषणम् ॥११॥ नवाधिकरण करणं, अन्यान्यकलहसन्तानयोजनम् ॥ १२॥ उदीरणमुपशान्तकलहानामुदीरणम् ||१३|| अकालस्वाध्यायकरणं, अनेन हि प्रान्तदेवता असमाधौ योजयति ॥१४॥ सचित्तपृथ्वीरजःस्पृष्टपाणिना भिक्षाग्रहणं, एवं सरजः पादेन स्थण्डिलगमने पादाप्रमार्जनम् ॥१५॥ विकालेपि महच्छब्दकरणम् ||१६|| कलहकरणम् ॥ १७॥ झंझो गणभेदस्तत्करणम् ||१८|| सूर्योदयादारभ्यास्तंयावद्भोजनम् ॥१६॥ एषणासमितेरपालनम् ॥२०॥ एषु यो भिक्षुर्यतते पालनज्ञानत्यागैः ॥१४॥
मूलम् - इक्कवीसाए सबलेसु, बावीसाए परीसहे । जे भिक्खू जयई मिच्च, से न अच्छइ मंडले ॥१५॥
व्याख्या – एकविंशतौ शत्रुलयन्ति - कबु रीकुर्वन्ति चारित्रमिति शत्रुला :- क्रियाविशेषास्तेषु ते चामी-हस्तकर्म कुर्वन् शबलः, अत्र क्रि.
अध्य० ३१ ॥५६॥