SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ अध्य०३१ उत्तराध्ययनसूत्रम् ॥६॥ ॥६ ॥ READLE याक्रियावतोः कथञ्चिदभेदाभ्युपगमादेवमुच्यते, एवं सर्वत्र ॥१॥ अतिक्रमव्यतिक्रमातिचारैमैथुनं सेवमानः ॥२॥ रात्रौ भुञ्जानः॥३॥ आधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामित्या ७ भ्याहृता ८ च्छेद्यानि : भुञ्जानः, तत्र प्रामित्यमुद्धारकगृहीतं, अभ्याहृतं स्वपरग्रामादेरानीतं, आच्छेद्यमुद्दाल्य गृहीतम् । प्रत्याख्यातभिक्षां भुञ्जानः ॥१०॥ षण्मासान्तर्गणाद्गणं संक्रामन् ॥११॥ मासान्तस्त्रीन् दकलेपान् कुर्वाणः, तत्रार्द्धजंघादघ्ने पयस्यऽवगाह्यमाने संघट्टः, नाभिद्वयसे पयसि तु लेपः, नाभेरुपरि तु जले प्राप्ते लेपोपरि कथ्यते । तथा मासान्तस्त्रीण्यपराधप्रच्छादनरूपाणि मायास्थानानि कुर्वन् ॥१२॥ उपेत्य प्राणातिपातं कुर्वन् ॥१३॥ उपेत्य मृषा वदन ॥१४॥ उपेत्यादत्तमाददानः ॥१५॥ अव्यवधानायां सचित्तपृथ्व्यां ऊर्वावस्थानशयनोपवेशनानि कुर्वन् ॥१६॥ एवं-संस्निग्धायां सचित्तरजोव्याप्तायां च भुवि । सचित्तशिलादौ घुणादिजीवावासे काष्ठादौ वा स्थानादि कुर्वन् ॥१७॥ साण्डे त्रसजीवान्विते बीजहरितावश्यायोत्तिङ्गपनकाम्बुमृत्तिकामर्कटसन्तानसहित विष्टरादौ स्थानादि कुर्वाणः ॥१८॥ उपेत्य कन्दमूलपुष्पफलबीजहरितानि भुञ्जानः ॥१६॥ वर्षमध्ये दश दकलेपान् मातृस्थानानि च कुर्वन् ॥२०॥ उपेत्य सचित्तजलार्द्रहस्तदवीभाजनादिनाशनादि गृहीत्वा भुञ्जानः ।।२१॥ द्वाविंशतौ परीषहेषु पूर्वोक्तेषु यो || भिक्षुर्यतते परिहारसहनादिभिः ॥१॥ मूलम्-तेवीसइ सूअगडे, रूवाहिएसु सुरेसु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१६॥ व्याख्या-त्रयोविंशत्यध्ययनयोगात त्रयोविंशति तच्च तत्सूत्रकृतं च त्रयोविंशतिसूत्रकृतं, त्रयोविंशतिः सूत्रकृताध्ययनानि चामूनि"पुंडरीय १ किरिअठाणं २, आहारपरिण ३ अपच्चक्खाणकिरिया ४ य। अणगार ५ अद्द ६ नालंद ७, सोलसाईच तेवीसं ॥१॥" अत्र 'सोलसाईति' षोडश च समयादीनि पूर्वोक्तानीति त्रयोविंशतिः । तथा रूपमेकस्तदधिकेषु प्रक्रमात सूत्रकृताध्ययनेभ्यः 'सुरेषु च' भ EVEGGERVACE ܟܦܠܐܦܬܦܟܕܟܝܒܕܠܐܗ. Cavee
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy