SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥५६॥ अध्य०३१ an ܩܙܕܦܕܩܝܕܩܙܕܦܕܩܕܩܩܣܗܦܙܤܟܕܩܙܞ | उत्तानकः-ऊर्ध्वमुखशयितः, पासल्ली-पार्श्वमुखशयितः, निषद्यावान् समपुततयोपविष्टः, स्थानमुक्तरूपं स्थित्वा ग्रामादिभ्यो बहिरिति शेषः ॥ | १०॥ "दुच्चावि एरिसञ्चिअ, बहिया गामाइआण नवरं तु । उक्कड लगंडसाई, दंडाययो व ठाएज्जा" । उत्कटुको-भूमावन्यस्तपु. M ततयोपविष्टः, 'लगंडं दुःस्थितं काष्ठं तद्वच्छेते यः स लगण्डशायी शीर्षपाणिभिरेव स्पृष्टभूभागो न पृष्ठेन, दण्डवदायतो दीपों दण्डायतः, वा विकल्पार्थः, स्थित्वा दिव्याधुपसर्गान् सहते इति शेषः ॥११॥ "तच्चावि एरिसच्चिन, नवरं ठाणं तु तस्स गोदोही । वीरा-16 सणमहवावी, ठाइज्जा अंबखुज्जो वा"। तिष्ठेदाम्रकुञ्जो वा आम्रफलवद्वक्राकारेणावस्थित इत्यर्थः ॥१२॥ एमेव अहोराई, छठभत्तं अपाणगं नवरं । गामनगराण बहिया, वग्धारिअपाणिए ठाणं ।" एवं पूर्वोक्तनीत्या 'वग्धारिअपाणिएत्ति' प्रलम्बितभुजस्य स्थानं भवति, अहोरात्रिकी प्रतिमा दिनत्रयेण याति, अहोरात्रान्ते षष्ठभक्तकरणात् ॥१३॥ “एमेव एगराई, अट्ठमभत्तेण ठाण बाहिरभो। ईसिंपन्भारगए, अणिमिसनयणेगदिटठीए"। अहोरात्रिकीवदेकरात्रिकी अपानाष्टमभक्तेन यत्स्थानं कायोत्सर्गस्तत्कत्तु बहिष्ठाद्ग्रामादेस्तिष्ठतीति योगः, ईषत्प्राग्भारगत ईषदवनतो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात् , अनीमीषनेत्र एकपुद्गलन्यस्तदृष्टिः ॥१४॥ "साहटु दोवि पाए, वग्धारियपाणिः ठायए ठाणं । वग्धारियलंबिभुत्रो, सेस दसासु जहा भणिअं" संहृत्य चतुरंगुलान्तरं कृत्वेत्यर्थः वाघारितपाणिः प्रलम्बितभुजस्तिष्ठति स्थानं कायावस्थानविशेषं, इयं प्रतिमाऽहोरात्रानन्तरमष्टमकरणाच्चतूरात्रिंदिवसमाना स्यात् , अस्याश्च सम्यक् पारङ्गतोऽवधिमनःपर्यायकेवलज्ञानानामन्यतमां लब्धि प्राप्नोति इति, शेष दशाश्रुतस्कन्धानुसारेण ज्ञेयं । यो भियतते यथावत्परिज्ञानोपदेशादिभिः ॥११ मूलम्-किरिआसु भूअग्गामेसु, परमाहम्मिएसु य। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१२॥ ' व्याख्या-क्रियासु' कर्मबन्धनिबन्धनभूतचेष्टासु अर्थानादिभेदैत्रयोदशसु, यदुक्त-"अट्ठा १ ऽणट्ठा २ हिंसा ३ कम्हा ४ evee VeeVEGVEGVEEVEE EVEEVEGVEGVEVA
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy