________________
उत्तराध्ययनमत्रम् ॥५॥
कर्म करोति । आसु चादिमं द्वयं एकत्रैव वर्षे, द्वितीयमेकैकवर्षे, अन्यास्तिस्रः अन्यान्यवर्षे, अन्यत्र वर्षे परिकर्मान्यत्र च प्रतिपत्तिः, तं
अध्य०३१ नवभिर्वराद्याः सप्त समाप्यन्ते । अस्य च श्रुतं जघन्यतो नवमपूर्वतृतीयवस्तुयावत्, उत्कर्षतस्तु किश्चिदूनानि दश पूर्वाणि । सम्पूर्णदश
| ॥५॥ पूर्षधरो हि अमोघवचनत्वात् धर्मोपदेशेन भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमा न प्रतिपद्यते । न च पूर्वगतश्रुतं विना एताः प्रतिपद्यते, निरतिशयित्वात्कालादि न जानातीति ॥३॥ "वोसठ्ठ चत्तदेहो, उवसग्गसहो जहेव जिणकप्पी। एसणअभिग्गहीया, भत्तं च अलेवडं तस्स" व्युत्सृष्टः परिकाभावेन त्यक्तश्च ममत्वाभावे देहो येन स तथा, यथैव जिनकल्पी तथैवोपसर्गसहः स्यात् , एपणा पिण्डग्रहणप्रकारः संसृष्टादिः सप्तधा सा अभिगृहीता अभिग्रहवती स्यात् , तद्यथा-सप्तसु भक्तपानपणासु अन्त्याश्चतस्त्र एव ग्राह्याः, तत्रापि आद्ययोरग्रहणं । पुनरपि विवक्षितदिवसेऽन्त्यानां पश्चानां मध्ये द्वयोरभिग्रहः । एका भक्ते एका च पानके इति । भक्तं पुनरलेपकृत्तस्य इत्यादि परि-14 कर्म कृत्वा ॥४॥"गच्छावि णिक्खमित्ता, पडिवज्जे मासिघ्रं महापडिमं । दत्तगभोअणस्सा, पाणस्सवि एग जा मासं" यद्याचार्यः प्रतिपत्ता तदा स्वल्पकालं साध्वन्तरे स्वपदं न्यस्य शरत्काले स्वगणं क्षमयति, प्रतिमाप्रतिपन्नश्चैवं प्रवर्तते ॥५॥ "जत्थत्यमेइ सूरो, न तो ठाणा पयंऽपि संचलइ । नाएगराइवासी, एगं व दुगं व अण्णाए ।" ज्ञाते उपलक्षिते एकरात्रं वसति, एकं वा द्वे वा दिने अज्ञाते ॥६॥"दुट्ठाण हथिमाईण, नो भएणं पर्यपि ओसरई । एमाइ नियमसेवी, विहरइ जाऽखंडिओ मासो ॥७॥ पच्छा गच्छसुवेई, एवं दुमासी तिमासि जा सत्त । नवरं दत्ती वड्ढइ, जा सत्त उ सत्तमासीए ॥८॥ तत्तो अ अट्ठमीआ, हवइह पडिमा उ सत्तराइदिणा । तीइ चउत्थचउत्थे ण, पाणएणं इह विसेसो"। अष्टम्यामयं विशेषो यच्चतुर्विधाहारांश्चतुर्थान् करोति, इहापि च पारणकेष्वाचाम्लं कार्य, दत्तिनियमस्तु नास्ति ॥६॥ तथा “उत्ताणग-पासली, नेसज्जी मावि ठाण ठाइत्ता। सहइ उवसग्गे घोरे, दिव्वाई तत्थ अविकंपो"।
evee Veree!
GEVEEVEGVEGGE