SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ उचराध्य मनसूत्रम् ॥४६॥ सेवितेन उपस्थापनाया अप्ययोग्यः सन् यावद्गुरूक्त ं तपो न कुर्यात्तावद् व्रतेषु न स्थाप्यते श्रचीर्णतपास्तु दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्यम् ॥६॥ यस्मिन् सेविते लिङ्ग - क्षेत्र - काल - तपसा पारमश्चति तत्पाराञ्चितं यद्वा पारमन्तं प्रायश्विचानां तत उत्कृष्टप्रायश्चिताभावात्, अपराधानां वा पारमश्चतीति पाराश्चितम् ॥१०॥ इत्येतद्दशविधं यो भिक्षुर्वहत्यासेवते सम्यगवैपरीत्येन प्रायश्चित्तं तदाख्यातम् ॥३१॥ विनयमाह मूलम् - अब्भुड्डाणं अंजलिकरणं तवासगदायणं ! गुरुभत्तिभावसुस्सूसा विणओ एस वाहि ॥ ३२ ॥ व्याख्या---'अभ्युत्थानमञ्जलिकरणं तथेति समुच्चये, 'एवः' पूत्तौं, “आसणदायरांति" श्रासनदानं, गुरुभक्तिः, भावः - अन्तःकरणं तेन शुश्रूषा - तदादेशप्रति श्रोतुमिच्छा, पर्युपासना वा, भावशुश्रूषा | विनय एष व्याख्यातः ||३२|| वैयावृत्यमाह - मूलम् - आयरिअमाइअमि, वेद्यावच्चमि दसविहे । श्रासेवणं जहाथामं, वेद्यावच्चं तमाहिचं ॥३३॥ व्याख्या--''आयरिष्यमाइयंमित्ति" मकारोऽलाक्षणिकस्तत " श्राचार्यादिके" श्राचार्यादिविषये व्यावृत्तभावो “वैयावृत्त्यम्' उचितविघिना आहारादिसम्पादनं उक्त च - "वेशावच्चं वावडभावो तह धम्मसाहणनिमित्तं । अनाइमाण विहिणा, संपाडणमेस भावत्थो ॥१॥" 'वस्मित्, 'दशविधे' विषयविभागाद्दशप्रकारे, यदुक्त - " आयरिअ १ उवज्झाए २, थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ | साहम्मिच ७ कुल ८ गए ६ संघ १० संगयं तमिह कायव्वं ॥ १ ॥ " आसेवनमेतद्विषयमनुष्ठानं 'यथास्थाम' यथाशक्ति वैयावृत्यं तदाख्यातम् ॥३३ स्वाध्यायमाह- Excee चाध्य० ३० ॥४६॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy