________________
अध्य०३०
उत्तराध्ययनसूत्रम् ॥४८॥
॥४॥
ܢܕܦܩܦܟܛܬܟܒܝܟܩܝܣܕܟܟܩܐ
मूलम्-एसो बाहिरगतवो, समासेण विवाहिओ । अभितरं तवं एत्तो, वोच्छामि अणुपुत्वसो ॥२६॥
पायचित्तं विणमओ, वेआवच्चं तहेव रूज्झायो। झाणं च विउस्सग्गो, एसो अभितरो तवो ॥३० ___ व्याख्या स्पष्टम् ॥२६॥ प्रतिज्ञातमेवाह-अक्षरार्थः सुगमो भावार्थ तु सूत्रकृदेवाहमूलम्-आलोअणारिहाईअं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्मं, पायछित्तं तमाहिलं ॥३१॥
व्याख्या-'आलोचनाह' यत्पापमलोचनात एव शुध्यति तदादिकं, आदिशब्दात् प्रतिक्रमणार्हादिग्रहणं, इह च विषयविषयिणोरमेदोपचारादेवंविधपापविशुद्धथ पायभूतानि आलोचनादीन्येव आलोचनार्हादिशब्दैरुक्तानि । प्रायश्चित्तं तुरेवकारार्थो भिन्नक्रमश्च, ततो दश. विधमेव । दशविधत्वं चैव-"आलोअण १ पडिक्कमणे २, मीस ३ विवेगे ४ तहा विउसग्गे ५ । तव ६ छेत्र ७ मूल ८ अणवठ्ठयाय
पारंचिए १० चेव ॥१॥" तत्र आलोचना गुरोः पुरो वचसा प्रकाशनं, तन्मात्रेणैव यत्पातकं शुध्यति तदालोचनाहम् ॥१॥ प्रायश्चित्तं त्विहालोचनैव, एवमग्रेपि प्रतिक्रमणं दोषानिवृत्तिमिथ्यादुष्कृतदानमित्यर्थः, तन्मात्रेणैव यत्सहसात्कारजातं सावधवचनादिपापं शुध्यति न तु गुरुसमक्षमालोच्यते तत्प्रतिक्रमणाहम् ॥२॥ तथा यत्र गुरुसमक्षमालोच्य तदाज्ञया मिथ्यादुष्कृतं दत्ते तदालोचनाप्रतिक्रमणाहत्वान्मिश्रम् ॥३॥ तथा विवेकः-पृथक्करणं, तन्मात्रेणैव यस्य शुद्धिस्तद्विवेकार्हम् । जायते हि कथञ्चिदशुद्धाहारादिग्रहणे तत्त्यागमाणैत्रेव शुद्धिरिति । ४॥ व्युत्सर्गः-कायोत्सर्गस्तेनैव यस्य शुद्धिस्तत्तदहम् ॥शा तथा यत्र प्रतिसेविते निर्विकृतिकादि षण्मासान्तं तपो दीयते तत्तपोर्हम् ॥६॥ यत्र चासेविते पर्यायच्छेदः क्रियते तच्छेदाहम् ॥७॥ यत्र चापतिते सर्व पर्यायमुच्छेद्य मूलतो व्रतारोपः स्यात्तन्मूलाईम् ॥८॥ येन पुनः
GEGEVOEGEGEVERVAATA