________________
उत्तराध्यपनमत्रम् ॥४७॥
अध्य०३० ॥४७॥
। मूलम्-खीरदहिसप्पिमाई, पणी पाणभोअणं । परिवजणं रसाणं तु, भणि रसविवजणं ॥२६॥
- व्याख्या-क्षीरदधिसर्पिरादि, आदिशब्दाद्गुडपक्वान्नादिग्रहणं, 'प्रणीतम् अतिबृहकं पानं च खर्जुररसादि भोजनं च गलत्स्नेहबिन्दुिकमोदनादि पानभोजनं, सूत्रस्य सोपस्कारत्वादेषां परिवर्जनं रसानां 'तु! पूत्तौं भणितं रसविवर्जनमिति सूत्रार्थः॥ कायक्लेशमाहमूलम्-ठाणा वीरासणाईआ, जीवस्स उ सुहावहा । उग्गा जहा धरिजंति, कायकिलेसं तमाहियं ॥२७॥ |
व्याख्या-'स्थानानि' देहावस्थानभेदाः, 'वीरासनं यत्र वामोंघिदक्षिणोरूवं दक्षिणश्च वामोरूर्व क्रियते तदादीनि, आदिशब्दागोदोहिकादिग्रहणं, लोचाधुपलक्षणं चैतत् , जीवस्य तुरवधारणे भिन्नक्रमश्च ततः सुखावहान्येव मुक्तिहेतुत्वात् शुभावहान्ये 'उग्राणि'
दुष्करतयोत्कटानि 'यथा' येन प्रकारेण 'धार्यन्ते' सेव्यन्ते कायक्लेशः स आख्यातः' कथितस्तथैवेति शेष इति सूत्रार्थः ।। संलीनतामाहप्र मूलम्-एगंतमणावाए, इत्थीपसुविज्जिए । सयणासणसेवणया, विवित्तसयणासणं ॥२८॥
____ व्याख्या-"एगंतत्ति" सुब्ब्यत्ययादेकान्ते जनानाकुले, 'अनापाते' स्त्र याद्यापातरहिते, 'स्त्रीपशुविवर्जिते' तत्रैवावस्थितस्त्र यादिवियुक्त शून्यागारादावित्यर्थः, "सयणासणसेवणयत्ति" शयनासनसेवनं विविक्तशयनासनं नाम बाह्य तप उच्यते, उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्याख्या संलीनतोक्ता, शेषसंलीनतोपलक्षणमेषा, यतश्चतुर्विधेयमुक्ता, तथा हि-"इदिअ १ कसाय २ जोगे ३, पडुच्च संलीणया मुणेअब्वा । तह जा विवित्तचरिआ ४, पणत्ता वीरागेहिं ॥१॥" तत्रेन्द्रियसंलीनता मनोज्ञामनोज्ञेषु रागद्वेषाकरणातु ॥१॥ कषायसंलीनता तदुदयनिरोधादेः ॥२॥ योगसंलीनता मनोवाक्कायानां शुभेषु प्रवृत्तेरशुभानिवृत्तेश्च ॥३॥ इति सूत्रार्थः ॥२८॥ उक्तमेवार्थमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह
eveeveeverGVEGEEveeveeVEGVERY