________________
उचराध्यपनसूत्रम् ॥४६॥
मूलम-अट्ठविहगोअरग्गं तु, तहा सत्तेव एसणा । अभिग्गहा य जे अन्ने, भिक्खायरिअमाहिआ ॥२५॥ अध्य०३ ____ व्याख्या-"अट्ठविहगोअरगति" प्राकृतत्वादष्टविधः, अग्रः-प्रधानोऽकल्पपरिहारेण स चासौ गोचरश्च-उच्चावचकुलेष्वविशेषेण भ्र
॥४६॥ मणमष्टविधायगोचरः, 'तुः पूत्तौं । तथा सप्तव एषणा अभिग्रहाश्च येऽन्ये तदतिरिक्तास्ते किमित्याह-"भिक्खायरिअमाहित्ति" भिक्षाच: र्या-वृत्तिसंक्षेपापरनामिका आख्याता कथिता । अत्राष्टौ अग्रगोचरभेदाः पेटादय एव, तेषु शम्बूकावाया द्वैविध्यस्य पार्थक्याश्रयणात, आयतायाश्च गमनेऽपि वलमानत्वे इव पृथग्ग्रहणात् तेषामष्टविधत्वं ज्ञेयं । सप्तेषणाश्चेमा:-"संसट्ठमसंसट्ठा २, उद्धड ३ तह अप्पले वित्रा चेव ४ । उग्गहिआ ५ पग्गहिआ ६, उज्झिअधम्मा य ७ सत्तमिश्रा ॥१॥" संसृष्टाभ्यां हस्तपात्राभ्यां भिक्षां गहणतः प्रथमा । १॥ असंसृष्टाभ्यां तु ताभ्यां गहणतो द्वितीया ॥२॥ पाकस्थानात् यत् स्थाल्यादौ स्वार्थ भोजनायोद्धृतं ततो गहणतः उद्धृताख्या तृतीया ॥३॥ निर्लेप पृथुकादिगहणतोऽल्पलेपा चतुर्थी ॥४॥ उद्गृहीता नाम भोजनकाले भोक्तुकामस्य परिवेषयितु दर्बीशरावादिना यदुपहृतं भोजनजातं तत एवाददानस्य पञ्चमी ॥॥ प्रगृहीता नाम भोजनकाले भोक्तुकामाय दातुमुद्यतेन भोक्त्रा वा यत्करादिना गृहीतं तत एव गृहणतः षष्ठी ॥६॥ उज्झितधर्मा तु यत्परिहारार्ह भोजनजातं यदन्ये द्विपदादयो नावकांक्षन्ति तद त्यक्त वा गहणतः सप्तमी ॥७॥ अभिग्रहाश्च द्रव्य १ क्षेत्र २ काल ३ भाव ४ विषयाः । तत्र द्रव्याभिग्रहाः कुन्ताग्रादिसंस्थितं मण्डकादि ग्रहीष्यामीत्यादयः ॥१॥ क्षेत्राभिग्रहा देहलीं जंघयोर्मध्ये कृत्वा यदि दास्यति तदा ग्राह्यमित्याद्याः ॥२॥ कालाभिग्रहाः सकलभिक्षुकोपरमकाले मया भ्रमितव्यमितिमुख्याः ॥शा भावाभिग्रहास्तु हसन्नाक्रन्दन् बद्धो वा यदि दाता दास्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः ॥४॥ इति सूत्रार्थः । रसत्यागमाह
१ संसष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यामिति “घ” पुस्तके ।।
EEVELEVENEGVESEVGVCEV
ܟܬܕܟ