________________
उत्तराध्य
यनसूत्रम् ॥४५॥
२०॥ एतदेवप्रकारान्तरेणाह - अथवा तृतीयपौरुष्याभूनायां 'ग्रासम् ' आहारं "एसन्तोत्ति" एषयतः कियता भागेन न्यूनायामित्याह-वतुभगोनायां, 'वा' शब्दात् पञ्चादिभागोनायां वा, एवममुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरत इत्यनुवर्त्तते, कालेन तु भवेदवमौदर्यम् । औत्सगिंकविधिविषयं चैतत्, उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ||२१|| भावावमौदर्यमाह
मूलम् - इत्थी का पुरिसोवा, अलंकियो वाऽणलंकियो वावि । अन्नयरवयत्थो वा, अन्नयरेणं वा वत्थेां। अन्नेण विसेसेणं, वण्णेणं भावमणुमुचंते उ । एवं चरमाणो खलु भावोमाणं मुणेव्वं ॥२३॥
व्याख्या—स्त्री वा पुरुषो वा, अलङ कृतो वा अनलंकृतो वा, अपिः पूर्वौ, अन्यतरस्मिन् वयसि तारुण्यादौ तिष्ठतीत्यन्यतरवयः स्थो वा, अन्यतरेण पट्टसूत्रमयादिना वस्त्रेणोपलचितः ||२२|| 'अन्नेत्यादि ' - अन्येन विशेषेण कुपितहसितादिनाऽवस्थाभेदेन, वर्णेन कृष्णादिनोपलक्षितो भावमुक्तरूपमेवालङ कृतत्वादिकं “अणुमुते उत्ति" अमुञ्चन्नेव यदि दाता दास्यति तदाहं ग्रहीष्ये नान्यथेत्युपस्कार : एवं “चरमाणोत्ति” चरतः खलु “भावोमाणंति” भावावमौदर्यं मुणितव्यम् ||२३|| पर्यवावमौदर्यमाह - दव्वे खित्ते काले, भावंमिश्र आहि उ जे भावा। एएहिं ओमचरओ, पज्जवचरत्र भवे भिक्खु ॥२४॥
व्याख्या - द्रव्येऽशनादौ, क्षेत्रे ग्रामादौ, काले पौरुष्यादौ, भावे च स्त्रीवादी 'आख्याताः' कथिताः 'तु' पूतौं ये भावाः' पर्याया एकसिक्थोनत्वादयः एतैः सर्वैरपि श्रवममुपलक्षत्वादवमौदर्यं चरतीत्यवमचरकः पर्यवचरको भवेद्भितः । इह पर्यवग्रहणेन पर्यवप्राधान्यविवचया पर्यावौदर्यमुक्तं एवं क्षेत्रावमौदर्यादीन्यपिं क्षेत्रादिप्राधान्यविवक्षया ज्ञेयानि, तस्त्रतो हि तेष्वपि द्रव्यावमौदर्यस्य सम्भवात् । यत्रापि द्रव्यतो न्यूनत्वमुदरस्य नास्तिं तत्रापि क्षेत्रादिन्यूनतामपेक्ष्यावमौदर्याणि भएयन्त इति सूत्रैकादशकार्थः ||२४|| भिचाचर्यामाह -
अध्य० ३
॥४५॥