________________
उत्तराध्ययनसूत्रम् ॥४४॥
सर्वत्र विकल्पार्थः एवमनेन प्रकारेण "एत्तिअंति" एतावद्विवक्षातो नियतपरिमाणं क्षेत्रं कल्पते मम भिक्षायै पर्यटितुमिति शेषः, 'तुः पूत एवमादि श्रादिशब्दाद्गृहशालादिपरिग्रहः एवममुना प्रकारेण 'क्षेत्रेणेति' क्षेत्रहेतुकं 'तुः' पूत्तौं भवेदवमौदर्यमिति प्रक्रमः ॥ १८ ॥ - नरन्यथा क्षेत्रावमौदर्यमाह — तंत्र पेटा - मंजूषा तद्वत्संलग्नसर्वदिक्स्थगृहाटने पेटा ॥१॥ अर्द्धपैटा - तदर्द्धभ्रमणे ||२|| गोमूत्रिका तदाकारे वामदक्षिणतो भ्रमणे ||३|| 'पतङ्गवीथिका' तिडवदन्तरा बहुगृहाणि मुक्त्वा मुक्त्वा भ्रमणे ||४|| शम्बूकः - शंखस्तद्वदावर्त्तो यस्यां सा शम्बूकावर्त्ता, सा द्विविधा, अभ्यन्तरशम्बूकावर्त्ता च तत्राद्या शंखनाभिसदृशाकारे क्षेत्रे मध्यादारभ्य बाह्यगृहं यावदटने, अन्या तु तद्विपर्यये ॥५॥ आययगंतु पच्चागयत्ति" आयतं दीर्घं प्राञ्जलमित्यर्थः, गत्वा प्रत्यागता षष्ठी, इयं ऋजुतयाऽग्रतो गत्वा वलमानस्याटने ॥ ६ ॥ व गोचररूपत्वात् भिक्षाचर्यात्वमेवासां तत्कथमिह क्षेत्रावमौदर्यरूपत्वमुच्यते ! उच्यते - श्रवमौदर्यं ममास्त्वित्याशयेन क्रियमाणत्वादवमौदर्यन्यपदेशोऽप्यत्रादुष्ट एव, दृश्यन्ते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्रादयोऽनेके व्यपदेशाः । एवं पूर्वत्र ग्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्ग इदमेवोत्तरं वाच्यम् ॥ १६ ॥ कालावमौदर्यमाह -
मूलम् — दिवसस्स पोरिसीगं, चउरहंपि उ जत्तियो भवे कालो। एवं चरमाणो खलु, कालोमाणं मुणेव्व ॥ अहवा तइआए पोरिसीए ऊणाए घासमेसंतो । चउभागूणाए वा, एवं कालेण ऊ भवे ॥ २१ ॥ व्याख्या - दिवसस्य पौरुषीणां चतसृणामपि तुः पूत यावान् भवेत्कालोऽभिग्रहविषय इति शेषः, 'एवमिति' एवंप्रकारेण प्रक्रमात्कालेन “चरमाणोत्ति” सुव्यत्ययाच्चरतो भिक्षार्थं भ्रमतः चतसृणां पौरुषीणां मध्येऽमुकस्मिन् काले भिक्षाचर्यां करिष्यामीत्येवमभिगृह्य पर्यटतः 'खलु' निश्चितं "कालोमाणंति" कालेन हेतुनाऽवमत्वं प्रस्तावादुदरस्य कालावमत्वं, कोऽर्थः ? कालावमौदर्यं 'मुखितव्यं' ज्ञातव्यम् ॥
acerere
Reece ce
अध्य० ३० ॥४४॥