________________
चराध्ययनसूत्रम् ॥४२॥
अध्य०३० ॥४२॥
पायवेणेत्थ ॥२॥" आहारच्छेदोशनादित्यागो द्वयोरपि सविचाराविचारयोः सपरिकर्मापरिकर्मणोनिहायनिहारिणोश्च सम इति सूत्रपश्चकार्थः ॥१३॥ उक्तमनशनं ऊनोदरतामाहमूलम्-आमोअरणं पंचहा, समासेण विआहि । दव्वओ खित्तकालेणं, भावेणं पजवेहि अ॥१४॥
व्याख्या-अवम-न्यूनमुदरं यस्यासाववमोदरस्तस्य भावोऽवमौदर्य न्यूनोदरता पञ्चधा समासेन व्याख्यातं, द्रव्यतो द्रव्याद्धेतौ पश्चमी, क्षेत्रं च कालश्च क्षेत्रकालं तेन, भावेन पर्यायैश्चोपाधिभूतैः ॥१४॥ तत्र द्रव्यत आहमूलम् -- जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहणणेणेगसित्थाइ, एवं दव्वेण ऊ भवे ॥१५॥ ___ व्याख्या-यो यस्य 'तुः' पूत्तौं आहारो द्वात्रिंशत्कबलादिमानः, ततः स्वाहारा 'अवम्'ऊन 'तुः पूर्ती यः कुर्यात् भुञ्जानः इति शेषः, अयं भावः-- पुरुषस्य हि द्वात्रिंशत्कवलमान आहारः, स्त्रियाश्चाष्टाविंशतिकवलमानः। कवलश्चेह यस्मिन् क्षिप्ते मुखस्य नातिविकृतत्वं स्यात्तावन्मानो ज्ञेयः । ततश्चैतन्मानादूनं यो भुङ क्ते यत्तदोनित्याभिसम्बन्धात् तस्य एवममुना प्रकारेण द्रव्येणोपाधिभूतेन भवेदिति सण्टङ्कः । अवमोदर्यमिति प्रक्रमः, एतच्च जघन्येनैकसिक्थं-यत्रैकमेव सिक्थं भुज्यते तदादि, आदिशब्दासिक्थद्वयादारभ्य यावदेककवलभोजनम् । इत्थं चाल्पाहाराहवमवमौदर्यमाश्रित्योच्यते, यत उपार्दादिषु तद्भेदेषु कवलनवकादिमानमेव जघन्यं स्यात्तथा च सम्प्रदायः-"अप्पाहारोमोअरिश्रा जहणणेणेगकवला, उक्कोसेणं अट्ठ कवला, सेसा अजहन्नमणुक्कोसा । उवड्ढाहारोमोअरिआ जहन्नेणं नव कवला, उक्कोसेणं | बारस कवला, सेसा अजहन्नममणुक्कोसा" इत्यादि-एतभेदावामी "अप्पाहार १ उबड्ढा २, दुभाग ३ पत्ता ४ तहेव किंचूणा ५.॥ अट्ठ १ दुवालस २ सोलस ३, चउवीस ४ तहेक्कातीसा ५ य ।।१।" अत्राष्टादिभिः संख्याशब्दरल्पाहारादीनामूनोदरताभेदानां उत्कर्षतः ।
CEVE TEVEEVEEVEEEEEEEEEEVEGVeevele