________________
उत्तराध्य यनसूत्रम् ॥४१॥
की अध्य०३
॥४१॥
-RDERAPRADAAAAAORA
स च समास्तृतमदुसंस्तारकस्त्यक्तभक्तकरणोपकरणादिममत्वः स्वयमुच्चरितनमस्कारः पाच वर्तिमुनिदत्तनमस्कारो वा सत्यां शक्तौ स्वयमुद्रतनादि कुरुते, शक्तेरभावेऽपरैरपि किञ्चित्कारयतीति १ इङ्गिनीमरणे त्वालोचनासंलेखनादिपूर्व शुद्धस्थण्डिलस्थित एकाक्येव कृतचतुर्विधाहारप्रत्याख्यानो नियमितस्थण्डिलस्यैवान्तश्छायात उष्णमुष्णाच च्छायां स्वयमेव संक्रामति न त्वन्येन किश्चित्कारयतीति २ अविचारं तु पादपोपगमनं, तत्र हि देवगुरुवन्दनादिविधिना चतुर्विधाहारप्रत्याख्यानं कृत्वा गिरिकन्दरादौ गत्वा पादप इव यावज्जीवं निश्चेष्ट एवावतिष्ठते ३॥१२॥पुनद्वैविध्यमेव प्रकारान्तरेणाह–'अथवेति' प्रकारान्तरसूचने, 'सपरिकर्म' स्थानोपवेशनत्वग्वतनोद्वर्तनादिलक्षणपरिकर्मयुक्तं, 'अपरिकर्मच' तद्विपरीतमाख्यातं, तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च, आये स्वपरकृतस्य द्वितीये तु स्वयंकृतस्योद्वर्तनादिपरिकर्मणः सद्भावात् , अपरिकर्म तु पादपोपगमनं, तत्र सर्वथा परिकाभावात् । उक्तश्च-"समविसमंमि य पडिओ, अच्छइ सो पायवोव्व निक्कंपो । चलणं परप्पोगा, नवरि दुम्मस्सेव तस्स भवे ॥१॥" यद्वा परिकर्म-संलेखना सा यत्रास्ति तत्सपरिकर्म तद्विपरीतं त्वपरिकर्म, तत्र च व्याघाताभावे भक्तपरिज्ञादित्रयमप्येतत्सूत्रार्थोभयनिष्ठो निष्पादितशिष्यः संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्त्तध्यानसम्भवात् , | यदुक्तं-"देहम्मि असंलिहिए, सहसा धाऊहिं खिज्जमाणेहिं । जायइ अट्टज्माणं, सरीरिणो चरिमकालम्मि ॥१॥" इति सपरिकम्मर्मोच्यते यत्पुनाघाते विद्युगिरिभित्तिपतनाद्यभिघातरूपे सद्योघातिरोगादिरूपे वा संलेखनामकृत्वैव भक्तपरिज्ञादि क्रियते तदपरिकर्मेति । तथा निर्हरणं निहारो गिरिकन्दरादौ गमनेन ग्रामादेर्बहिर्गमनं तद्विद्यते यत्र तनिहारि, यत् पुनरुत्थातुकामे व्रजिकादौ क्रियते तदनिहारि, तत्र क्वापि गमनाभावात् । एतच्च भेदद्वयमपि पादपोपगमनविषयं तत्प्रस्ताव एवागमेऽस्याभिधानात् । यदुक्तं--"पाओवगमणं दुविहं, नीहारिं चेव तह अनीहारिं । बहिआ गामाईणं, गिरिकंदरमाइ नीहारिं ॥१॥वइमासु जं अंतो, उठाउमणाण ठाइ अणिहारिं । तम्हा पाओवगमणं, जं उवमा
VEGVEGEVEEVEE TeeVEVEGVESEVGve