________________
challing
धनसूत्रम् ॥३८॥
व्याख्या – एतेषां प्राणिबधविरत्पादीनां समित्यादीनां चानाश्रवहेतुनां विपर्यासे सति यद्रागद्वेषाभ्यां समजितं कर्मेति शेषः क्षपयति तु यथा भिक्षुस्तन्मे कथयत इति शेषः, एकमनाः शृणु ॥४॥ यथा महातटाकस्य 'सन्निरुद्धे' पान्यादिना निरुद्धे जलागमे “उस्सिचाएत्ति” उत्सिञ्चनेनारघट्टघटथादिभिरुदञ्चनेन 'तपनेन' अर्ककरतापेन क्रमेण 'शोषणा' जलाभावरूपा भवेत् ॥५॥ "एवं तुत्ति" एवमेव संयतस्यापि पापकर्मणां निराश्रवे - आश्रवाभावे पापकर्मनिराश्रवे सति भवकोटिसञ्चितं कर्म्म, अतिबहुत्वोपलक्षणमेतत्, तपसा निर्जीर्यते इति सूत्रत्रयर्थः || ६ || तपसा कर्म निर्जीर्यते इत्युक्तमतस्तद् मेदानाह-
मूलम् — सो तवो दुविहो वुत्तो, बाहिरब्भितरो तहा । बाहिरो छव्विहो वृत्तो, एवमभितरो तो ॥७॥
व्याख्या—“सो तबोत्ति” तत्तपो द्विविधं प्रोक्त', लिङ्गव्यत्ययः सर्वत्र सूत्रत्वात्, बाह्यमाभ्यन्तरं तथा । तत्र बाह्य बाह्यद्रम्यापेकलालोकप्रतीतत्वात्कृतीर्थिकैरपि स्वाभिप्रायेण सेव्यमानत्वात् बहिः शरीरस्य वा तापकारित्वात्, मुक्तिप्राप्तौ प्रायो बाह्याङ्गत्वाद्वा । तद्विपरीतं त्वाभ्यन्तरमिति सूत्रार्थः ॥७॥ तत्र यथा बाह्य ं षड्विधं तथाह
मूलम् - अणसणभूगोरिया, भिक्खायरिया य रसपरिच्चायो । कायकिलेसो संलीया य बझो तो व्याख्या अक्षरार्थः स्पष्टो भावार्थं तु सूत्रकृदेव वक्ष्यति ॥ ८ ॥ तत्रानशनस्वरूपं तावदाह
मूलम् - इतर मरणकाल य, दुविहा असणाः भवे । इत्तरिच्या सावकखा, निरनकंखा उ विइजिमा
व्याख्या—इत्वरमेव ‘इत्वरकं’ स्वल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तत् ' मरणकालं' यावज्जीवमित्यर्थः, 'चः' समुच्चये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहावकांचया घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्त्तते इति सावकांचं निरवकांचं तत्र भवे
व्य० ३०
|३८||