________________
उत्तराध्य यनसूत्रम् ॥३७॥
क अध्य०३०
॥३७॥
HASPARARIAAAAAAADIAS
॥ अथ त्रिंशत्तममध्ययनम् ॥ ॥ॐ॥ उक्तमेकोनत्रिंशमथ त्रिंशत्तमं तपोमार्गगतिनामाध्ययनमारभ्यते, तत्र तप एव मार्गो भावमार्गस्तत्फलभृता च गतिः सिद्धिगतिरूपा वाच्याऽस्मिन्निति तपोमार्गगतिः इत्यस्य नामार्थ । सम्बन्धश्चायमनन्तराध्ययने अकर्मता प्रोक्ता सा च तपसः साध्येति तत्स्वरूपमत्रोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम्मूलम्-जहा उ पावगं कम्मं, रागद्दोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥
व्याख्या—'यथा' येन प्रकारेण 'तुः' पूत्तौ पापकं कर्म ज्ञानावरणादि रागद्वेषसमर्जितं क्षपयति तपसा भिक्षुस्तत्तपः एकाग्रमनाः शृणु शिष्येति सूत्रार्थः ॥१॥ इह चानाश्रवेणैव जीवेन कर्म क्षप्यते ततो यथायमनाश्रवः स्यात्तथाहमूलम्-पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहा विरओ । राईभोअणविरओ, जीवो होइ अणासवो ॥२॥
पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ। अगारवो अ निस्सल्लो, जीवो होइ अणासवो ॥३॥ व्याख्या—स्पष्टे ईदृशश्च सन् यादृशं कर्म यथा क्षपयति तथा दृष्टान्तद्वारेणादराधानाय पुनः शिप्याभिमुखीकरणपूर्वकमाहमूलम-एएसिं तु विवच्चासे, रौंगद्दोससमज्जिअं । खवेइ उ जहा भिक्खू, तं मे एगमणो सुण ॥४॥
जहा महातलागस्सु, सन्निरुद्ध जलागमे । उस्सिंचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ एवं तु संजयस्सावि, पावकम्मनिरासवे । भवकोडिसंचिमं कम्म, तवसा निजरिजइ ॥६॥
GELEENTEVE