________________
उत्तराध्य
यनसूत्रम्
॥३३॥
तत्पूर्वतया न हि पुरा तत्क्षपितमासीदिति, 'यथानुपूर्वि' श्रनुपूर्व्या श्रनतिक्रमेण श्रष्टाविंशतिविधं मोहनीयं कर्म 'उद्घातयति' क्षपयति, तत्क्षपणाक्रमश्चायम्-पूर्वमनन्तानुबन्धिनः क्रोधादीन् युगपत् क्षपयति, तदनु क्रमान्मिथ्यात्वं मिश्रं सम्यक्त्वदलिकं च तदनु प्रत्याख्यानाप्रत्याख्यानकषायाष्टकं क्षपयितुमारभते, तस्मिंश्चार्द्धक्षपिते नरकगत्यानुपूर्वी २ तिर्यग्गत्यानुपूर्वी ४ एकेन्द्रियादिजातिनामचतुष्का ८ ऽऽतपो १० स्थावर ११ सूक्ष्म १२ साधारण १३ निद्रानिद्रा १४ प्रचलाप्रचला १५ स्त्यानद्धिं १६ लक्षणाः षोडश प्रकृतीः क्षपयति, ततः कषायाष्टकावशिष्टं क्षपयित्वा क्रमात् नपुंसकवेदं स्त्रीवेदं हास्यादिषट्कं पुरुषवेदं च क्षपयति, यदि पुरुषः प्रतिपत्ता, अथ स्त्री षण् तदा स्वस्ववेदं प्रान्ते क्षपयति । तदनु क्रमात् संज्वलनक्रोधमानमायालोभान्, क्षपणाकालश्च प्रत्येकं सर्वेषां वा अन्तर्मुहूर्त्तमेव । इत्थं चैतदन्तमुहूर्त्तस्यासंख्यभेदत्वात् । इत्थं मोहनीयं क्षपयित्वान्तर्मुहूर्त्तं यथाख्यातचारित्रं प्राप्तः क्षीणमोहद्विचरमसमययोः प्रथमसमये निद्राप्रच क्षपयित्वा चरमसमये यत्क्षपयति तत्सूत्रकृदेवाह--पंचेत्यादि - पञ्चविधं ज्ञानावरणीयं, नवविधं दर्शनावरणीयं पञ्चविधमन्तरायं “ एएत्ति" एतानि त्रीण्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति, तत इति क्षपणातः पश्चात् न विद्यते उत्तरं प्रधानं ज्ञानमस्मादित्यनुत्तरं, अनन्तं अविनाशित्वात्, कृत्स्नं कृत्स्नार्थग्राहकत्वात्, प्रतिपूर्ण सकलस्वपरपर्यायप्रतिपूर्ण वस्तु प्रकाशकत्वात्, निरावरणमशेषावरणविगमात् वितिमिरं तस्मिन् सति क्वचिदप्यज्ञानतिमिराभावात्, विशुद्धं सर्वदोषाभावात्, लोकालोकप्रभावकं तत्स्वरूपप्रकाशकत्वात्, केवलवरज्ञानदर्शनं समुत्पादयति । स च यावत्सयोगी मनोवाक्कायव्यापारवान् भवति तावत् "इरिश्रावहिअंति” ईर्या - गतिस्तस्याः पन्थाः ईर्यापथस्तस्मिन् भवमैर्यापथिकं, उपलक्षणं च पथिग्रहणं, तिष्ठतोऽपि सयोगस्येर्यासम्भवात्, कर्म बध्नाति । तत्कीदृशमित्याह-सुखयतीति सुखः स्पर्श-श्रत्मप्रदेशैः सह संश्लेषो यस्य तत् सुखस्पर्श, द्विसमयस्थितिकं, तदधिकस्थितेः कषायप्रत्ययत्वात् । यदुक्तं - "जोगा पयडिपएस, ठिइ अणु
1
अध्य० २६ ॥३३॥