SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२१॥ अध्य०१८ ॥२१॥ CEEAAVEEV Veevee ever जनैः स्थालं तदुत्खातं, ततः श्रेष्ठी गृहं ययौ ॥३४॥ सत्कृत्य क्षमयित्वाऽथ, स्वजनान् पूर्जनांस्तथा ॥ जिनधर्मो गुरूपान्ते, प्रव्रज्य जिन2 धर्मवित् ॥३।। पुरान्निर्गत्य विहिता-ऽनशनोऽदिशिरस्थितः ॥ पक्षं पचं कृतोत्सर्गः, क्रमादस्थाच्चतुर्दिशम् ॥३६॥ [युग्मम् ] गत्रकाकादि- | भिर्भक्ष्य-माणपृष्ठोऽपि तत्र सः ।। सहमानो व्यथामुग्रां, स्मरन् पञ्चनमस्क्रियाः ॥३७॥ विपद्य प्रथमस्वर्गे, बभूव त्रिदशाधिपः।आनषकि AII फलं हयेतत, जिनधर्मविधायिनाम ॥३८॥ [युग्मम् ] तापसोऽपि मृतस्तेना-ऽऽभियोग्येन कुकर्मणा । ऐरावणाहयो हस्ती, जज्ञे तस्यैव वाहनम् ॥३६॥ ततश्च्युत्वा भवे भ्रान्त्वा, कृत्वा बालतपः क्वचित् ।। यक्षोऽसिताक्षनामाभू-ज्जीवस्तस्य त्रिदण्डिनः ॥४०॥ इतश्चात्रैव भरते, विषये कुरुजङ्गले । अस्ति स्वस्तिपदं श्रीम-नगरं हस्तिनापुरम् ॥४१॥ जैत्रसेनोऽश्वसेनाह्व-स्तत्राभूतभाजी वरः ॥ सहदेवीति तस्यासी-देवी देवीव भूगता ॥४२।। तस्याः कुक्षौ जिनधर्म-जीवः स्वर्गात्परिच्युतः॥ चतुर्दश महास्वप्नान दर्शन समवातरत् ॥ ४३॥ पूर्णे कालेऽथ साऽसूत, सुतं लक्षणलक्षितम् ।। जगज्जनमनोहारि, रूपं लक्ष्मीरिव स्मरम् ॥ ४४ ॥ सनत्कुमार | इत्याख्या, चक्रे तस्योत्सवैनृपः ॥ सोऽथ क्रमेण ववृधे, कल्पद्रुम इवोद्गतः ॥४५॥ श्रीमान् महेन्द्रसिंहाख्यः, कालिन्दीसूरयोः सुतः॥ | सपांशक्रीडितस्तस्य, वयस्यः शस्यधीरभूत् ।। ४६ ॥ समं तेन वयस्येन, कलाचार्यस्य सन्निधौ ॥ सनत्कुमारः सकलाः, कला जग्राह लीलया ॥४७॥ अमन्वयन्त्रनिश्शेष-कामिनीजनकार्मणम् ॥ लावण्यपुण्यं तारुण्यं, कुमारः प्राप स क्रमात् ॥४८॥ उद्यानं मकरन्दाख्य वसन्तसमयेऽन्यदा ।। समं महेन्द्रसिंहेन, क्रीडायै भूपभूर्ययौ ॥४६॥ नानाक्रीडाभिरक्रीड-सत्रा' मित्रेण तत्र सः । तदा च राज्ञोऽश्व पति-र्यान्' वाहानढौकयत् ॥५०॥ हयं जलधिकल्लोला-इयं भूपभुवोऽप्यधात् ।। कुमारोऽपि तमारोह-तद्गतिं द्रष्टुमुत्सुकः ॥ ११॥ १ पर्वतशिखरस्थितः। २ देशे। ३ राझी। ४ मित्रः। ५ साधम् । ६ अश्वान् । ܟܦܝܕܦܦܕܦܕܦܦܦܕܦܕܦܦܕܦܕܦܝܩܬܗ
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy