SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥३०॥ KARAVAARARARARAFAHAAN तपश्च चारित्रयोगाश्च चारित्रव्यापाराः ज्ञानविनयतपश्चारित्रयोगास्तान् सम्प्राप्नोति तथा स्वसमयपरसमययोः संघातनीयः -- प्रधानपुरुषतया मीलनीयः स्वसमयपरसमयसंघातनीयो भवति, स्वसमयपरसमयशब्दाभ्यां चेह तद्वेदिनो ग्राह्यास्तेष्वेव मीलनसम्भवात् ॥ ५६ ॥ ६१ ॥ मूलम् — दंसणसंपन्नयाए गं भंते! जीवे किं जणयइ ? दंसणसंपन्नयाए गं भवमिच्छत्तच्छेणं करेइ, परं न विज्जाइ, अणुत्तरेणं गाणेणं दंसणेणं अप्पाणं संजोएमाणे सम्मं भावेमाणे विहरइ ॥६०॥६२॥ व्याख्या — 'दर्शन सम्पन्नतया' क्षायोपशमिकसम्यक्त्वयुक्ततया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य च्छेदनं क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः ? क्षायिकसम्यक्त्वमवाप्नोति । ततश्च परमित्युत्तरकालं उत्कृष्टतस्तस्मिन्नेव भवे मध्यमजघन्यापेक्षया तु तृतीये तुर्ये वा जन्मनि केवलज्ञानावाप्तौ न विध्यायति ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं न प्राप्नोति, किन्त्वनुत्तरेण क्षायिकत्वात्सर्वोत्तमेन ज्ञानदर्शनेन प्रतिसमयमपरापरोपयोगरूपतयोत्पद्यमानेन आत्मानं 'संयोजयन् ' संघट्टयन्, संयोजनं च भेदेपि स्यादित्याह - सम्यग्भावयंस्तेनात्मानं तन्मयतां नयन् विहरति भवस्थ केवलितया ॥ ६० ॥६२॥ जणयइ, से मूलम् — चरित्तसंपन्नयाए गं भंते! जीवे किं जणयइ ? चरित्तसंपन्नयाए णं सेलेसी भावं सीपडिवन्ने अणगारे चत्तारि केवलिकम्म से खबइ, तो पच्छा सिञ्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ॥ ६१॥६३॥ व्याख्या – चरित्रसम्पन्नतया शैलानामीशः शैलेशो - मेरुः स इव निरुद्धयोगत्वादत्यन्तस्थैर्येण मुनिरपि शैलेशः, तस्येयमवस्था शैलेशी, अध्य० २६ ॥३०॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy