________________
उत्तराध्ययनसूत्रम् ॥२७॥
का अध्य०२६
॥२७॥
BIBABDसालस
यति, करणसत्ये च वर्तमानो यथावादी तथाकारी चापि भवति, स हि सूत्रं पठन् यथा क्रियाकलापबदनशीलः स्यात्तथैव करणशीलोपीति ॥५१॥५३॥ तस्य च मुनेर्योगसत्यमपि स्यादिति तदाहमूलम्-जोगसच्चेणं भंते ! जीवे किं जणयइ ? जोगसच्चेणं जोगे विसोहेइ ॥५२॥५४॥
योगसत्येन मनोवाक्कायसत्येन योगान् विशोधयति, क्लिष्टकर्मबन्धाभावानिर्दोषान् करोति ।। योगसत्यं च गुप्तिमतः स्यादिति ता पाहका मूलम्-मणगुत्तयाए णं भंते ! जीवे किं जणयइ ? मणगुत्तयाए णं जीवे एगग्गं जणयइ, एगग्गचित्ते णं जीवे मणगुत्ते संजमाराहए भवइ ॥५३॥५५॥
व्याख्या-मनोगुप्ततया मनोगुप्तिरूपया ऐकाग्रयं प्रस्तावाद्धमैकतानचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो मनो गुप्तमशुभाध्यवसा| येषु गच्छद्रक्षितं येनासौ मनोगुप्तः, क्तान्तस्य परनिपातः सूत्रत्वात् , संयमाराधको भवति ॥५३॥५५॥
मूलम्-वइयुत्तयाए णं भंते ! जीवे किं जणयइ ? वइगुत्तयाए णं निविआरत्तं जणयइ, निब्धिकारेणं जीवे | वइगुत्ते अज्झप्पजोगसाहणजुत्ते आवि भवइ ॥५४॥५६॥
" व्याख्या 'वाग्गुप्ततया' कुशलवागुदीरणरूपया 'निर्विकारत्वं विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो जीवो वाग्गुप्तः सर्वथा वागनिरोधलक्षणवाग्गुप्तिमान अध्यात्म मनस्तस्य योगा व्यापारा धर्मध्यानादयस्तेषां साधनानि एकाग्रतादीनि तैयुक्तोऽध्यात्मयोगसाधनयुक्तचापि भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तकाग्रतादिमाग भवति ॥५४॥५६।।
BEVEEVEEVEve!
EEVEGEGYZEVEGVAVE