SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अध्य०२४ का॥२२॥ उत्तराध्य व्याख्या-शरीरमौदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणाः "न कृष्णो न नीलः" इत्यादयो यस्य स सिद्धातिशयगुणस्तयनसूत्रम् द्भावस्तत्त्वं जनयति, सिद्धातिशयगुणसम्पन्नश्च जीवो लोकाग्रभवत्वाल्लोकायं मुक्तिपदमुपगतः परमसुखी भवति ॥३८॥४०॥ सम्भोगादिप्रत्या॥२२॥ KI ख्यानानि प्रायः सहायप्रत्याख्याने सुकराणीति तदाह | मूलम्-सहायपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? सहायपच्चक्खांणेणं एगीभावं जणयइ, एगीभाव भूए अ जीवे एगग्गं भावमाणे अप्पझझे अप्पकसाए अप्पकलहे अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आवि भवइ ॥३६॥४१॥ ___व्याख्या-सहायाः-साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन यथाविधयोग्यताभाविनाऽभिग्रहविशेषेण 'एकीभावम्'एकत्वं जनयति, एकीभावं एकत्वं भूतःप्राप्तश्च जीव 'ऐकायं' एकालम्बनत्वं भावयन्'अभ्यस्यन् 'अल्पझंझो'ऽवाक्कलहः, अल्पकषायोऽकषायः, 'अप्पतुमंतुमेत्ति' अल्पमविद्यमानं त्वं त्वमिति–खल्पापराधवत्यपि त्वमेवेदं कृतवान् त्वमेवेदं करोषीत्यादि पुनः पुनः प्रलपनं यस्य सोऽल्पत्वंत्वः, संयमबहुलः प्राग्वत् । अत एव समाहितो ज्ञानादिसमाधिमांश्चापि भवति ॥३६॥४१॥ ईदृशश्चान्ते भक्त प्रत्याख्यातीति तत्प्रत्याख्यानमाहमूलम्-भत्तपच्चक्खाणे भंते ! जीवे कि जणयइ ? भत्तपच्चक्खाणेणं अणेगाई भवसयाइं निरंभइ ॥ __व्या०-'भक्तप्रत्याख्यानेन' भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, दृढशुभाध्यवसायेन संसाराल्पत्वापादनात् ॥४०॥४२॥ साम्प्रतं सर्वप्रत्याख्यानोत्तमं सद्भावप्रत्याख्यानमाह aeeeeeeeeeeE PAAAAEARREARH
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy