________________
उत्तराध्य
यनसूत्रम् ॥२१॥
NNINNAN
व्याख्या—आहारप्रत्याख्यानेन जीविते आशंसा - अभिलाषो जीविताशंसा तस्याः प्रयोगः करणं जीविताशंसाप्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनत्वाज्जीवितस्याहारप्रत्याख्याने तदाशंसाव्यवच्छेदो भवत्येवेति । तं च व्यवच्छिद्य जीव आहारमन्तरेण संक्लिश्यते, कोऽर्थः ? विकृष्टतपोनुष्ठानेऽपि न बाधामनुभवति ||३५||३७|| एतत्प्रत्याख्यानत्रयं कषायाभाव एव सफलमिति तत्प्रत्याख्यानमाहमूलम् -- कसायपच्चक्खाणं भंते! जीवे किं जणयइ ? कसायपच्चक्खाणेणं वीयरागभावं जरण्यइ, वीरागभावं पडवणं जीवे समसुहदुक्खे भवइ ॥ ३६ ॥ ३८ ॥
व्याख्या – कषायप्रत्याख्यानेन क्रोधादिनिवारणेन वीतरागभावमुपलक्षणत्वाद्वीतद्वेषभावं च जनयति तं च प्रतिपन्नो जीवः समे रागद्वेषाभावात्तुल्ये सुखदुःखे यस्य स समसुखदुःखो भवति ॥ ३६ ॥ २८ ॥ निष्कपायोऽपि योगप्रत्याख्यानादेव मुक्तः स्यादिति तदाहमूलम् - जोगपच्चक्खाणं भंते! जीवे कि जरण्यइ ? जोगपच्चक्खाणं अजोगित्तं जणयइ, अजोगी गं जीवे नवं कम्मं न बंधइ, पुव्वबद्ध च निज्जरेइ ॥३७॥३६॥
व्याख्या—योगा मनोवाक्कायव्यापारास्तत्प्रत्याख्यानेन तन्निरोधेन योगित्वं जनयति, अयोगी च नवं कर्म्म न बध्नाति, सकलबन्धहेतूनामुच्छेदात् । पूर्वबद्ध ं च भवोपग्राहिकर्मचतुष्कमन्यस्य तदाऽसम्भवात् । योगप्रत्याख्यातुः शरीरप्रत्याख्यानमपि स्यादिति तदाहमूलम् - सरीरपच्चक्खाणं भंते! जीवे किं जणयइ ? सरीरपच्चक्खाणं सिद्धाइसयगुणत्तं निव्वत्ते, सिवाइसयगुणसंपन्ने अ णं जीवे लोगग्गमुवगए परमसुही भवइ ॥ ३८ ॥४०॥
अध्य०२६ ॥२१॥