________________
अध्य०२६
उपराध्ययनसूत्रम्
॥१७॥
॥१७॥
SeeYesveeYEGYEEYEEVELYELVE-YE DEVEurce
या संयमेनाश्रवविरमणादिना "अणण्हयत्तंति" 'अनंहस्कत्वं' अविद्यमानपापकर्मत्वम् ॥ सत्यपि संयमे तपो विना न कर्मक्षपणेति तदाह- || मूलम्-तवेणं भंते ! जीवे किं जणयइ ? तवेणं वोदाणं जणयइ ॥२७॥२६॥
व्याख्या-"वोदाणंति" 'व्यवदानं पूर्वबद्धकर्ममलापगमाद्विशिष्टां शुद्धिं जनयति ॥२७॥२६॥ व्यवदानस्यैव फलमाहमूलम्-वोदाणेणं भंते ! जीवे किं जणयइ ? वोदाणेणं अकिरिअंजणयइ, अकिरिआए भवित्ता तो पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वाइ, सव्वदुक्खाणमंतं करेइ ॥२८॥३०॥ | व्याख्या-व्यवदानेन 'अक्रियं व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थभेदं जनयति, ततश्च अक्रियाको व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा 'सिध्यति' निष्ठितार्थो भवति, 'बुध्यते' ज्ञानदर्शनोपयोगाभ्यां वस्तुतत्त्वमवगच्छति, मुच्यते संसारादत एव परिनिर्वातीत्यादि प्राग्वत्
॥२८॥३०॥ व्यवदानं च सुखशातेनैव स्यादिति तमाहघा मूलम्-सुहसाए भंते! जीवे कि जणयइ ? सुहसाएणं अणुस्सुअत्तं जणयइ, अणुस्सुए अणं जीवे
अणुकंपए अणुब्भडे विगयसोए चरित्तमोहणिज्जं कम्मं खवेइ ॥२६॥३१॥ ४. व्याख्या सुखस्य वैषयिकरूपस्य शातस्तद्गतस्पृहापोहेनापनयनं सुखशातस्तेन 'अनुत्सुकत्वं' विषयसुखं प्रतिनिःस्पृहत्वं जनयति, अनुत्सुकश्च जीवो 'अनुकम्पको' दुःखितानुकम्पी, सुखोत्सुको हि प्रियमाणमपि प्राणिनं पश्यन् स्वसुखरसिक एव स्यात् न त्वनुकम्पते, तथाऽनुद्भटोऽनुल्वणः, विगतशोको नैहिकार्थभ्रंशेपि शोचति मुक्तिपदबद्धस्पृहत्वात् , एवंविधश्च प्रकृष्टशुभभाववशाचारित्रमोहनीयं कर्म क्षप
NAVEGVereeVeereeVEVAVEVATE