SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनमूत्रम् ॥१२॥ RELA-DEEPARARIAB | दग्गं दीहमद्ध चाउरंतसंसारकंतारं खिप्पामेव वीईवयइ ॥ अध्य०२६ __ व्या०–'अनुप्रेक्षया'ऽर्थचिन्तनिकया आयुर्वर्जाः सप्त कर्मप्रकृतयः "धणिप्रबंधणबद्धाश्रोत्ति" गाढबन्धनबद्धा निकाचिता इत्यर्थः शि ॥१ ॥ थिलबन्धनबद्धाः कोऽथोंऽपवर्तनादिकरणयोग्याः प्रकरोति, तपोभेदत्वादस्यास्तपसश्च निकाचितकर्मक्षपणेऽपि क्षमत्वात् उक्त च-"तवसा उ4 निकाइयाणं चत्ति" । दीर्घकालस्थितिकाश्च ता हस्वकालस्थितिकाः प्रकरोति, शुभाशयवशात् स्थितिकण्डकापहारेणेति भावः । इह नरतिर्यग्देवायुबर्जाणां सर्वकर्मणां स्थितयो ग्राह्यास्तासामेव दीर्घत्वस्याशुभत्वात् । उक्त च-"सव्वाणवि जिट्टिई, असुहा जं साइसंकिलेसेण ॥ इत्ररावि सोहियो पुण, मुत्त नरअमरतिरिवाउं ॥१॥" तीवानुभावाश्चतुःस्थानिकादिरसा मन्दानुभावाः त्रिस्थानिकत्वादिभावम्प्राप्ताः प्रकरोति, इह चाऽशुभप्रकृतय एवं गृह्यन्ते, शुभभावस्य शुभासु तीव्रानुभावहेतुत्वात् । बहुप्रदेशाग्रा बहुकर्मदलिका अल्पप्रदेशाग्राः प्रकरोति । आयुःकर्म च स्यात् कदाचिद्बध्नाति स्यान्न बध्नाति, तस्य विभागादिशेषायुष्कतायामेव बन्धसम्भवात् , यदि बध्नाति तदा सुरायुरेख, मुनेस्तद्वन्धस्यैव सम्भवात् । असातवेदनीयं च कर्म चशब्दादन्याचाशुभप्रकृतीनों भूयो भूय उपचिनोति, भूयो भूयो ग्रहणं तु केनापि प्रमादेन प्रमत्तमुनेस्तद्वन्धस्यापि सम्भवात् । 'अनादिकं आदिरहितं, 'अनवदग्रं' अनन्तं, "दीहमद्धति" मकारोऽलाक्षणिकस्ततो 'दीर्घाद्धं दीर्घकालं, चत्वारश्चतुर्गतिलक्षणा अन्ता अवयवा यस्मिस्तच्चतुरन्तं संसारकान्तारं क्षिप्रमेव व्यतिव्रजति विशेषेणातिक्रामति ॥२२॥२४॥ अभ्यस्तश्रुतेन धर्मकथापि कार्येति तामाहमूलम्--धम्मकहाएणं भंते ! जीवे किं.जणयइ ? धम्मकहाएणं पवयणं पभावेइ, पवयणपभावए णं जीवे Eeeeeeeeeeeee
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy