SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥१३॥ REVERENARENEareedaver जीवः सर्वे प्राणा-द्वित्रिचतुरिन्द्रिया भूताश्च-तरवो जीवाश्च-पञ्चेन्द्रियाः सत्त्वाश्च-शेषजीवास्तेषु 'मैत्रीभावं' परहितचिन्तारूपमुत्पादयति, अव्य० २६ | चोपगतो जीवो 'भावविशुद्धि' रागद्वेषापगमरूपां कृत्वा निर्भयो भवत्यशेषभयहेत्वभावात् ॥ १७ ॥ १६ ॥ एवंविधगुणवता च स्वाध्यायः || ॥१३॥ कार्य इति तमाहमूलम्-सज्झाएणं भंते ! जीवे किं जणयइ ? सज्झाएणं नाणावरणिज्ज कम्म खवेइ ॥ १८ ॥ २० ॥ न्याख्या-स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषकर्म च क्षपयति । उक्तंच-."कम्ममसंखिज्जभवं, खवेइ अणुसमयमेव उवउत्तो । अण्णयरम्मिवि जोर, सज्झायम्मी विसेसेणं" ॥१८ ॥ २० ।। तत्रादौ वाचना कार्येति तमाहवायणाएणं भंते ! जीवे किं जणयइ ? वायणाएणं निज्जरं जणयइ, सुअस्त अण्णासायणाए वदृति, सुअस्स | अण्णासायणाए वट्टमाणे तित्थधम्म अवलंबइ, तित्थधम्म अवलंबमाणे महानिज्जरे महापज्जवसाणे भवइ ।। ___व्याख्या-'वाचनया' पाठनेन 'निर्जरां' कर्मपरिशाटं जनयति, तथा श्रुतस्यानाशातनायां च वर्तते, तदकरणे हि अवज्ञातः ? श्रुतमाशातितं भवेत् । पाठान्तरे [ "सुअस्स अणुसज्जणाए वहृति'' तत्र श्रुतस्यानुषञ्जने अनुवर्त्तने वर्त्तते, कोऽर्थः ? श्रुतस्याव्यवच्छेदं करोति] ततः श्रुतस्यानाशातनायामनुषञ्जने वा वर्तमानः तीर्थमिह गणधरस्तस्य धर्मः आचारः श्रुतप्रदानरूपस्तीर्थधर्मस्तमवलम्बते, तं चावलम्बमान आश्रयन् महानिर्जरस्तथा महत्प्रशस्यं पर्यवसानं अन्तः प्रक्रमात्कर्मणां यस्य स महापर्यवसानश्च मोबावाप्त भवति ॥ १६ ॥ २१ ॥ कृतवाचनः संशये पुनः पृच्छत्तीति प्रच्छनामाह CANEYEANeeeeeee-AANAA
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy