________________
उत्तराध्ययनसूत्रम् ॥११॥
अध्य०२४ ॥११॥
SADHAAR
व्याख्या–प्रत्याख्यानेन मूलगुणोत्तरगुणप्रत्याख्यानरूपेण आश्रवद्वाराणि निरुणद्धि, उपलक्षणत्वाच्च पूर्वोपचितं कर्म क्षपयति । नमस्कारसहितादिकं प्रत्याख्यानं चेहोत्तरगुणप्रत्याख्यानेऽन्तर्भवति इति ॥ १३ ॥१५॥ प्रत्याख्यानं च कृत्वा चैत्यसद्भावे तद्वन्दनं कार्य, तच्च स्तुतिस्तवमङ्गलं विना नेति तदाहमूलम--थयथुइमंगलेणं भंते ! जीवे किंजणयइ ? थयथुइमंगलेणं नाणदंसणचरित्तबोहिलाभं जणयइ, नाणदंसणचरित्तबोहिलाभसंपण्णे अणं जीवे अंतकिरिअं कप्पविमाणोववत्तिअं आराहणं आराहेइ ॥१४॥१६॥ | ___ व्याख्या-स्तवा देवेन्द्रस्तवाद्याः, एकादिसप्तश्लोकान्ताः, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुतिशब्दस्य इदन्तत्वात्पूर्वनिपातः, सूत्रे तु व्यत्ययः प्राकृतत्वात् , ते एव मङ्गलं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्ररूपो यो बोधिः ज्ञानदर्शनचारित्रबोधिस्तल्लाभं जनयति, ज्ञानदर्शनचारित्रबोधिलाभसम्पन्नश्च जीवोऽन्तो भवस्य कर्मणां वा पर्यन्तस्तस्य क्रिया निवर्तनमन्तक्रिया मुक्तिः ततश्चान्तक्रियाहेतुत्वादन्तक्रिया तां आराधनामितियोगः, तथा कल्पा-देवलोका विमानानि-गवेयकानुत्तरविमानरूपाणि तेषूपपत्तिरुत्पादो यस्याः सा तथा तां, अयं भावोऽनन्तरजन्मनि विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकामाराधनां 'ज्ञानाद्याराधनारूपामाराधयति साधयति ॥ १४ ॥१६॥ अर्हन्नमनादनु स्वाध्यायः कार्यः, स च काले एव, तज्ज्ञानं च कालप्रत्युपेक्षणया स्यादिति तामाह - मूलम्-कालपडिलेहणयाएणं भंते ! जीवे किं जणयइ ? कालपडिलेहणयाएणं नाणावरणिज कम्म खवेइ |
१ज्ञानदर्शनचारित्ररूपामाराधयति साधयतीति “घ” पुस्तकपाठः॥..
BeveeVESTE VEGVESEGOVIAVOVAVE