________________
उत्तराध्ययनसूत्रम् ॥१०॥
अध्य० २६ ॥१०॥
ISISESS
निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते सप्पणिहए विहरइ ॥ ११ ॥ १३॥ ___ व्याख्या-'प्रतिक्रमणेन'अपराधेभ्यः प्रतीपनिवर्त्तनेन 'व्रतछिद्राणि' अतिचारान् 'पिदधाति' स्थगयति, पिहितव्रतछिद्रः पुनर्जीवो || निरुद्धाश्रवोऽत एवाऽशवलं शबलस्थामैरकर्बुर चरित्रं यस्य स तथा, "अपुहत्तेत्ति" न विद्यते पृथक्त्वं प्रस्तावात् संयमयोगवियोगरूपं | यस्यासावपृथक्त्वः, "सुप्रणिहितः" सुष्ठ संयमप्रणिधिमान् 'विहरति' संयमाध्वनि याति ॥११॥१३॥ प्रतिक्रमणे चातिचारशुद्धये कायोत्सर्गः कार्य इति तमाह| मूलम्-काउस्सग्गेणं भंते ! जीवे किं जणयइ ? काउस्सग्गेणं तीअपडुपन्न पायच्छित्तं विसोहेइ, विशुद्ध । पायच्छित्ते अ जीवे नियहिए ओहरियभरुव्व भारवहे पसत्थज्माणोवगए सुहंसुहेणं विहरइ ॥१२॥१४॥
व्याख्या-कायोत्सर्गेणातीतं चेह चिरकालभावि, प्रत्युत्पन्नमिव प्रत्युत्पन्न चासनकालभावि, अतीतप्रत्युत्पन्न प्रायश्चित्तं प्रायश्चित्ताहमपराधं विशोधयति, विशुद्धप्रायश्चित्तश्च जीवो निवृतं स्वस्थीभूतं हृदयमस्येति निवृत्तहृदयः, क इ ? अपहृतभरोऽपसारितभारो भारवह इव, यथा ह्यपहृतभारो भारवहो निवृतहृदयः स्यात् तथाऽयमपि विशोधितातिचार इति भावः । स च प्रशस्तध्यानोपगतः 'सुखंसुखेन', सुखपरम्परावाप्त्या विहरति ॥ १२ ॥ १४ ॥ कायोत्सर्गेणाप्यशुद्धः प्रत्याख्यानं कुर्यादिति तदाहमलम्-पच्चक्खाणेणं भंते । जीवे किं जणयइ पच्चक्खाणेणं आसवदाराई निरु भइ ॥ १३ ॥ १५ ॥
१ दोषरहितम् ।।
GEVEEEEEEEEEEEEEE
a-
e ANA