________________
उत्तराध्ययनसूत्रम् ॥७॥
अध्य०२४ ॥७॥
व्याख्या-गुरुसार्मिकशुश्रूषणेन तदुपासनरूपेण 'विनयप्रतिपत्तिम्' उचितकृत्यकरणाङ्गीकाररूपां जनयति, 'विणयपडिवण्णे अत्ति' सूत्रत्वात् प्रतिपन्नविनयश्च जीवो अनत्याशातनाशीलः, कोऽर्थः ? गुरुपरिवादादिपरिहारादत्याशातनात्यागी सन् 'नेरइअइत्यादि' नैरयिकाच तिर्यञ्चश्च नैरयिकतिर्यञ्चस्तेषां योनी नैरयिकतिर्यगयोनी स्वार्थिक के नैरयिकतीर्यग्योनिके ते च मनुष्यदेवदुर्गती च म्लेच्छकिल्विषत्वादिके निरुणद्धि , तथा वर्णः-श्लाघा तेन संज्वलनं--गुणोद्धासनं वर्णसंज्वलनं, भत्तिरभ्युत्थानादिना, बहुमानः-आन्तरा प्रीतिरेषां द्वन्द्वे भावप्रत्यये च वर्णसंज्वलनभक्तिबहुमानता तया प्रक्रमाद्गुरूणां मनुष्यदेवसुगती सुकुलैश्वर्यादियुक्त निबध्नाति तत्प्रायोग्यकर्मबन्धनादिति भावः, सिद्धिसुगतिं च विशोधयति तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन 'प्रशस्तानि' प्रशंसास्पदानि 'विनयमूलानि' विनयहेतुकानि सर्वकार्याणि इह श्रुताध्ययनादीनि परत्र मोक्षादीनि साधयति, अन्यांश्च बहुन् जीवान् ‘विणइत्तत्ति विनेता-विनयं ग्राहयिता भवति, स्वयं सुस्थितस्योपादेयवचनत्वादिति भावः ॥ ४ ॥ ६ ॥ गुरुशुश्रुषां कुर्वतापि दोषसम्भवे आलोचना कार्येति तामाह
मूलम्-आलोयणयाए भंते ! जीवे किं जणयइ ? आलोयणयाएणं माया-नियाण-मिच्छादसणसल्लाणं | मोक्खमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयइ, उज्जुभावपडिवन्ने अणं
जीवे अमाई इथिवेयं नपसगवेयं चन बंधड. पवबद्ध चणं निजरेड ॥५॥७॥ _ व्याख्या-आलोचनया स्वदोषाणां गुरोः पुरः प्रकाशनरूपया मायानिदानमिथ्यादर्शनशल्यानां मोक्षमार्गविघ्नानामनन्तसंसारवर्द्धनानां 'उद्धरणं' अपनयनं करोति, ऋजुभावं च जनयति, ऋजुभावं प्रतिपन्नश्च जीवो अमायी सन् स्त्रीवेदं नपुंसकवेदं च न बध्नाति, पुंस्त्वहेतुत्वादमायित्वस्य, पूर्वबद्धं च तदेव द्वयं सकलकर्म वा 'निर्जरयति' क्षपयति ॥ ५ ॥७॥ आलोचना च स्वदोषनिन्दावत एव सफलेति तामाह
ܟܦܝܕܦܦܕܦܕܦܦܕܟܟܕܟܕܟܢܦܣܬܦܬ